कल्पे कल्पे ह्यनादिस्तु गीयते त्रिदशैः सदा
नाम प्राप्तं विशालाक्षि महाकालवनं सदा
अहं ज्यायानहं ज्यायान्कल्पादौ सृष्टिकारणात्
महाकालवने लिंगं कल्पेश्वरेति संज्ञकम् भविष्यति न संदेहो न वादः क्रियता मिति
ततो देवि गतो ब्रह्मा ऊर्द्ध्वलोकमनंतकम्
नादिर्दृष्टो न चांतश्च ब्रह्मणा केशवेन तु
वेदोक्तसूक्तैर्विविधैरभिनंद्य पुरःस्थितौ 5.2.5.
तस्मादनादिकल्पोऽयमद्यप्रभृति भूतले
पञ्चपातकसंयुक्तो यो मर्त्यो दुष्टमानसः
शिवमस्तु सदा तेषां येषां त्वं दर्शनं गतः
सर्वतीर्थाभिषेकैस्तु यत्पुण्यं प्राप्यते नरैः
तावत्पतंति संसारे सुखदुःखसमाकुले
यदा पापक्षयः पुंसां तदा त्वद्दर्शनं भवेत्
ब्रह्महा वा सुरापो वा स्तेयी च गुरुतल्पगः सोऽपि याति परं स्थानं पुनरावृत्तिवर्जितम्
यत्फलं चाश्वमेधेन राजसूयेन यत्फलम्
ते नराः पशवो लोके तेषां जन्म निरर्थकम्
इत्युक्त्वा केशवो देवो ब्रह्मा चैव वरानने 5.2.5.
एष ते कथितो देवि प्रभावः पापनाशनः
यस्य दर्शनमात्रेण धनवानिह जायते
पुरा सार्द्धं त्वया देवि क्रीडतो मम मंदिरे
देवैः सर्वैस्ततो वह्निः प्रेरितो मम संनिधौ
ततो वह्निमुखे क्षिप्तं वीर्यं स्वं क्रीडता मया
तत्र गत्वा प्रचिक्षेप वीर्यमग्निः सुदुर्द्धरम्
जातं रम्यं ततो दिव्यं वीर्यशेषेण कांचनम्
अग्नेरपत्यं प्रथमं दृष्ट्वोत्पन्नं तु पार्वति
यक्षाः साध्याः पिशाचाश्च मनुष्या राक्षसाः खगाः
सुवर्णार्थे महान्नादो ममेदमिति जल्पताम्
अथावरणमुख्यानि नानाप्रहरणानि च 5.2.6.
असुरा असुरैः सार्द्धं मनुष्या मानुषैः सह
भूतैः सार्द्धं च भूतानि राक्षसैः सह राक्षसाः