यथा संनिधिमात्रेण गंधः क्षोभाय जायते अनादिः कथ्यते देवो जगत्कारणतत्परम्
प्रधानं क्षोभ्यमाणं तु तेन लिंगेन पार्वति
यस्मिन्नंडे जगत्सर्वं सदेवासुरमानुषम्
स एव क्षोभकः पूर्वं स क्षोभ्यः पृथिवीपतिः
उत्पन्नः स जगन्नाथो निर्गुणोऽपि रजोगुणः
ब्रह्मत्वे सृजते लोकांस्ततः सत्त्वातिरेकतः
ततस्तमोगुणोद्भिन्नो रुद्रत्वेनाखिलं जगत् 5.2.5.
यथा प्राग्वापकः क्षेत्री पालको लावकस्तथा
ब्रह्मत्वे सृजते लोकानुद्रत्वे संहरत्यपि
रजो ब्रह्मा तमो रुद्रः सत्त्वं विष्णुर्जगत्पतिः
कल्पे कल्पे ह्यनादिस्तु गीयते त्रिदशैः सदा
नाम प्राप्तं विशालाक्षि महाकालवनं सदा
अहं ज्यायानहं ज्यायान्कल्पादौ सृष्टिकारणात्
महाकालवने लिंगं कल्पेश्वरेति संज्ञकम् भविष्यति न संदेहो न वादः क्रियता मिति
ततो देवि गतो ब्रह्मा ऊर्द्ध्वलोकमनंतकम्
नादिर्दृष्टो न चांतश्च ब्रह्मणा केशवेन तु
वेदोक्तसूक्तैर्विविधैरभिनंद्य पुरःस्थितौ 5.2.5.
तस्मादनादिकल्पोऽयमद्यप्रभृति भूतले
पञ्चपातकसंयुक्तो यो मर्त्यो दुष्टमानसः
शिवमस्तु सदा तेषां येषां त्वं दर्शनं गतः
सर्वतीर्थाभिषेकैस्तु यत्पुण्यं प्राप्यते नरैः
तावत्पतंति संसारे सुखदुःखसमाकुले
यदा पापक्षयः पुंसां तदा त्वद्दर्शनं भवेत्
ब्रह्महा वा सुरापो वा स्तेयी च गुरुतल्पगः सोऽपि याति परं स्थानं पुनरावृत्तिवर्जितम्
यत्फलं चाश्वमेधेन राजसूयेन यत्फलम्
ते नराः पशवो लोके तेषां जन्म निरर्थकम्
इत्युक्त्वा केशवो देवो ब्रह्मा चैव वरानने 5.2.5.
एष ते कथितो देवि प्रभावः पापनाशनः
यस्य दर्शनमात्रेण धनवानिह जायते
पुरा सार्द्धं त्वया देवि क्रीडतो मम मंदिरे