सर्पैर्लसद्भिरत्युग्रैर्भीषणैर्गणसंवृतः
महाकालवनं रुद्धं समंतादसुरेण तु
तदागत्य मया ताड्य रौद्रं डमरुकं तथा
डमरुकस्य नादेन ह्युत्थितं लिंगमुत्तमम् 5.2.4.
तस्य लिंगस्य च तदा महाज्वाला विनिर्गता
लिंगस्यान्यप्रदेशात्तु वायुः समभवन्महान्
तेजोज्वालासमूहेन वातेन प्रेरितेन च
ततो देवगणाः सर्वे हर्षनिर्भरमानसाः
अस्य देवस्य माहात्म्याद्दग्धो वज्रो महाबलः ख्यातिं यास्यति लोकेस्मिन्सर्वकामफलप्रदः
डमरुकस्य तु नादेन जातो यस्मान्महीतले
दृष्ट्वा ये पूजयिष्यंति देवं डमरुकेश्वरम्
चांद्रायणानां विधिवच्छतानामथ यत्फलम्
अस्मिन्स्थाने स्थितं लिंगं भक्त्या डमरुकेश्वरम्
तेऽप्यवश्यं तु यास्यंति रुद्रलोकं सनातनम् 5.2.4.
मानसैः पातकैर्मुक्ता यास्यंति परमं पदम् गोसहस्रफलं चात्र दृष्ट्वा प्राप्स्यंति मानवाः
यो याति संगरे धीरो दृष्ट्वा डमरुकेश्वरम्
एष ते कथितो देवि प्रभावः पापनाशनः
सर्वपापहरं नित्यमनादिर्गीयते सदा
कल्पस्यादौ पुरा देवि लिंगमेतद्विनिर्गतम्
न वायुर्न जलं चैव न द्यौर्ने न्दुर्ग्रहा न च
अतो लिंगात्समुद्भूतं जगत्स्थावरजंगमम्
अस्माल्लिंगात्समुद्भूता वंशा देवर्षिपैतृकाः
यावत्यः सृष्टयश्चैव यावंतः प्रलयास्तथा
भूर्लोकाद्याश्च ये लोकाः पातालाः सप्त ये स्मृताः
दृश्यादृश्यं च तत्सर्वमतो लिंगाद्वरानने यदाहुः पुरुषं सूक्ष्मं नित्यं सदसदा त्मकम्
ध्रुवमक्षयमजरममेयं नान्यसंश्रयम्
अनाद्यंतं जगद्योनिं त्रिगुणप्रभवाव्ययम् 5.2.5.
प्रलयस्यांते तेनेदं दिव्यमासीदशेषतः
अहमुर्व्यां प्रबुद्धस्तु जगदादिरनादिमान्
प्रकृतिं पुरुषं चैव प्रदर्श्याशु जगत्पतिः