ततः प्रव्यथिता देवास्तथा सर्वे महर्षयः
ततः कायोऽभवत्सद्यः सर्वेषां पुरतस्तदा
तस्मात्कृत्या समुत्पन्ना दिव्या कमललोचना
साब्रवीत्त्रिदशान्सर्वान्कस्मात्सृष्टा ह्यहं सुराः 5.2.4.
ततस्तु त्रिदशाः सर्वे श्रुत्वा तस्याः शुभा गिरः
श्रुत्वा जहास सा देवी साट्टहासं मुहुर् मुहुः
पाशांकुशधरा रौद्रा ज्वालामालावृताननाः
गताः सर्वा महादेवि यत्र वज्रो महासुरः
शस्त्रास्त्रैर्बहुधा मुक्तैर्व्याप्तं चैव दिगंतरम्
ततः प्रववृते युद्धं तया देव्या सुरद्विषाम् पराङ्मुखं बलं दृष्ट्वा वज्रो मायामथासृजत्
तामसींनाम दुःसाध्यां यया मुह्यति कन्यकाः
तमोभूते ततस्तस्मिन्सा देवी भयविह्वला
कपालवान्हरो यत्र लिंगाकारेण संस्थितः
वज्रोऽपि त्रिदशाञ्ज्ञात्वा देव्या सार्द्धमथोपि(षि?)तान् 5.2.4.
महाकालवने दिव्ये रथकोटिशतैर्वृतः
अद्य देवान्हनिष्यामि तया साकं सुदुष्टया
एतस्मिन्नंतरे काले नारदो मुनिसत्तमः
कथयामास देवनां वज्राद्देवपराभवम्
महाकालवने देव ताडितास्त्त्रिदशाः प्रभो
नारदस्य वचः श्रुत्वा ततोऽहं परमेश्वरि
सर्पैर्लसद्भिरत्युग्रैर्भीषणैर्गणसंवृतः
महाकालवनं रुद्धं समंतादसुरेण तु
तदागत्य मया ताड्य रौद्रं डमरुकं तथा
डमरुकस्य नादेन ह्युत्थितं लिंगमुत्तमम् 5.2.4.
तस्य लिंगस्य च तदा महाज्वाला विनिर्गता
लिंगस्यान्यप्रदेशात्तु वायुः समभवन्महान्
तेजोज्वालासमूहेन वातेन प्रेरितेन च
ततो देवगणाः सर्वे हर्षनिर्भरमानसाः
अस्य देवस्य माहात्म्याद्दग्धो वज्रो महाबलः ख्यातिं यास्यति लोकेस्मिन्सर्वकामफलप्रदः
डमरुकस्य तु नादेन जातो यस्मान्महीतले