यत्र स्नात्वा च दत्त्वा च यथाशक्त्या जितेंद्रियः
नरकस्थाश्च ये केचित्पितरश्च पितामहाः
तस्मिञ्छ्राद्धे कृते विप्र पितॄणामनृणो भवेत्
कर्त्तव्यमृषिनिर्दिष्टं पिण्याकेन गुडेन वा
तत्र श्राद्धं प्रकर्त्तव्यं नरैः श्रद्धासमन्वितैः
तुष्टेषु पितृषु श्रीमाञ्जायतेपुत्रवाँस्तथा
श्रियं च विपुलान्भोगाञ्छ्राद्धकृद्भयो न संशयः
श्राद्धं श्रद्धायुतैः सम्यगभीष्टफलकांक्षिभिः
सोमवारेण संयुक्ता अमावास्या यदा भवेत् 2.8.9.
अन्यदा सोमवारेण तत्र श्राद्धं विधानतः
तत्र पूर्वदिशाभागे तीर्थं सर्वोत्तमोत्तमम्
तत्र स्नात्वा च दत्त्वा च पिशाचो नैव जायते कर्त्तव्यं च प्रयत्नेन नरैः श्रद्धासमन्वितैः
मार्गशीर्षे शुक्लपक्षे चतुर्दश्यां विशेषतः
तत्संनिधौ पूर्वभागे मानसंनाम नामतः तत्र स्नानेन दानेन सर्वान्कामानवाप्नुयात्
नानाविधानि पापानि मेरुतुल्यानि वै पुनः
यत्किञ्चिद्विद्यते पापं मानसं कायिकं तथा
प्रौष्ठपद्यां सदा कार्य्या पौर्णमास्यां विशेषतः
तस्माद्दक्षिणदिग्भागे वर्त्तते सुकृतैकभूः
यत्र स्नानं तथा दानं सर्वपापहरं सदा 2.8.9.
नानाविधानि स्थानानि मुनीनां भावितात्मनाम्
यस्यास्तीरे मुनिश्रेष्ठ सर्वत्र सुमनोहरम्
यस्मात्स्थानात्समुद्भूता तमसा सुतरंगिणी
यस्य दर्शनतो नॄणां सर्वपापक्षयो भवेत्
प्रफुल्लनानाविधगुल्मशोभितं लताप्रतानावनतं मनोहरम्
तमालगुल्मैर्निचितं सुगंधिभिः सकर्णिकारैर्बकुलैश्च सर्वतः
क्वचित्प्रफुल्लांबुजरेणुभूषितैर्विहंगमैश्चारुफलप्रचारिभिः
क्वचिच्च चक्राह्वरवोपनादितं क्वचिच्च कादम्बकदम्बकैर्युतम्
मदाकुलाभिर्भ्रमरीभिरारान्निषेवितं चारुसुगंधिपुष्पवत्
प्रहृष्टनानाविधपक्षिसेवितं प्रमत्तहारीतकुलोपनादितम् 2.8.9.
निबिडनिचुलनीलं नीलकण्ठाभिरामं मदमुदितविहंगीवृन्दनादाभिरामम्