नो सिद्धोऽसौ यदा देवि तदा गंगामहत्तटम्
गोदावरीं भीमरथीं कौशिकीं शारदां शिवाम्
तीर्थं व्यर्थं तपो व्यर्थं तीर्थयात्राफलं यतः
एतस्मिन्नंतरे देवि वागुवाचाशरीरिणी
प्रयागाद्यानि तीर्थानि पृथिव्यां यानि संति वै
तत्रास्ते सुमहापुण्यं लिंगं सर्वार्थसाधकम्
प्रसादात्तस्य लिंगस्य पुनर्यास्यसि शांकरम्
इति श्रुत्वा ततो वाणीमाकाशस्थां गणस्तदा 5.2.3.
ददर्श तत्र तल्लिंगं सर्वसंपत्करं शुभम्
लिंगमध्यात्ततो वाणी निःसृता पर्व तात्मजे
त्वत्पादपंकजे भूयाद्भक्तिर्मेऽविचला सदा
वरमेनं प्रयच्छाशु यदि तुष्टो महेश्वरः
ये च त्वां मानवा देव पश्यंति परमेश्वर
ढुंढस्य भाषितं श्रुत्वा लिंगेनोक्तं यशस्विनि ते भविष्यंति सततं सदा पातकवर्जिताः
लप्स्यंति ते परान्कामान्भविष्यंति गणोत्तमाः
एवं लब्धवरो ढुंढः प्रांजलिः पुनरब्रवीत्
एवमस्त्विति लिंगेन प्रोक्तं तुष्टेन पार्वति
यस्य दर्शनमात्रेण सदा सिद्धिर्भवेन्नृणाम्।। 5.2.3.
भक्त्या ये पूजयिष्यंति देवं ढुंढेश्वरं परम्
स एव सुकृती लोके स एव मम वल्लभः
राजसूयशतेनैव यत्पुण्यं च भविष्यति
मानसं वाचिकं वापि कायिकं गुह्यसंभवम् तत्सर्वं यास्यति क्षिप्रं ढुंढेश्वरस्य दर्शनात्
इत्युक्तस्तु मया देवि स ढुंढो गणनायकः रेजे च गणपैः सार्द्धं ममाभीष्टतरोऽभवत्
एष ते कथितो देवि प्रभावः पापनाशनः
श्रीमहादेव उवाच दृष्टे यस्मिञ्जगन्नाथे याति पापं च संक्षयम्
पुरा वैवस्वते कल्पे रुरुर्नाम महासुरः बभूव सुमहाकायस्तीक्ष्णदंष्ट्रो भयंकरः
तेन देवाः स्वाधिकाराच्चालितास्त्रिदशाल यात्
ततो नीतं धनं तेषां ब्रह्माणं ते ततो ययुः
ज्ञात्वावध्यं सुरैः सार्धं सर्वैः सोऽथमहा बलः ताञ्जघान स दुष्टात्मा ये चान्ये धर्मचारिणः
निःस्वाध्यायवषट्कारं तदासीद्धरणीत तलम्