अष्टम्यां वा चतुर्दश्यां दर्शनं यः करिष्यति
अत्रागत्य प्रयत्नेन दर्शनं यः करिष्यति
कृत्वा पापसहस्राणि दर्शनं यः करिष्यति
ब्रह्महत्या सुरापानं स्तेयं गुर्वंगनागमः
यत्किंचिदशुभं कर्म जन्मकोटिशतार्जितम्
महापातकयुक्ता हि देहिनो ये महीतले
इत्युक्त्वा स द्विजो देवि दिव्यो मंकणको मुनिः
एष वै कथितो देवि प्रभावः पापनाशनः
सर्वपापहरं लिगं नृणां दुष्कृतनाशनम्
ढुंढश्चासीत्पुरा देवि कैलासे गणनायकः
गतोऽसौ शक्रलोकं तु कौतुकार्थं यदृच्छया
भावान्बहुविधान्रम्यान्दृष्टिहस्तादिकाञ्छुभान्। सूचीविद्धादिकरणान्पताकादिकहस्तकान्
शक्रोऽपि त्रिदशैः सार्द्धं तन्मुखासक्तलोचनः
एतस्मिन्नंतरे देवि ढुंढस्तल्ललितेन तु
तेन रंगरता रंभा पुष्पगुच्छेन ताडिता
पत त्वं मानुषं लोकं रंगभंगस्त्वया कृतः
पतितो मानुषे लोके विसंज्ञो विह्वलेन्द्रियः
अहोऽन्यायफलं प्राप्तं मया मोहादनुष्ठितम् 5.2.3.
न्यायमार्गं समाश्रित्य येन सिद्धिर्भवेन्मम
इत्युक्त्वा स तपस्तेपे महेंद्रे पर्वतोत्तमे
नो सिद्धोऽसौ यदा देवि तदा गंगामहत्तटम्
गोदावरीं भीमरथीं कौशिकीं शारदां शिवाम्
तीर्थं व्यर्थं तपो व्यर्थं तीर्थयात्राफलं यतः
एतस्मिन्नंतरे देवि वागुवाचाशरीरिणी
प्रयागाद्यानि तीर्थानि पृथिव्यां यानि संति वै
तत्रास्ते सुमहापुण्यं लिंगं सर्वार्थसाधकम्
प्रसादात्तस्य लिंगस्य पुनर्यास्यसि शांकरम्
इति श्रुत्वा ततो वाणीमाकाशस्थां गणस्तदा 5.2.3.
ददर्श तत्र तल्लिंगं सर्वसंपत्करं शुभम्
लिंगमध्यात्ततो वाणी निःसृता पर्व तात्मजे