मया प्रोक्तं प्रसन्नेन तस्य विप्रस्य पार्वति
तत्रास्ते सर्वदा पुण्या सप्तकल्पोद्भवा गुहा
तत्र द्रक्ष्यसि यल्लिंगं सप्तकल्पोद्भवं शुभम्
काम क्रोधोद्भवं पापं लोभमोहसमन्वितम्
मदीयं वचनं श्रुत्वा स विप्रो वेदपारगः
निःसृतो नियतो भूत्वा नमस्कृत्य पुनःपुनः
ददर्श तत्र तल्लिंगं तपसो वर्द्धनं परम्
एतस्मिन्नंतरे देवि देवैरुक्तं नभस्तले
सिद्धिः प्राप्ता द्विजेनैव दर्शनेन सुदुर्लभा
भक्त्या परमयोपेता ये द्रक्ष्यंति गुहेश्वरम् 5.2.2.
अष्टम्यां वा चतुर्दश्यां दर्शनं यः करिष्यति
अत्रागत्य प्रयत्नेन दर्शनं यः करिष्यति
कृत्वा पापसहस्राणि दर्शनं यः करिष्यति
ब्रह्महत्या सुरापानं स्तेयं गुर्वंगनागमः
यत्किंचिदशुभं कर्म जन्मकोटिशतार्जितम्
महापातकयुक्ता हि देहिनो ये महीतले
इत्युक्त्वा स द्विजो देवि दिव्यो मंकणको मुनिः
एष वै कथितो देवि प्रभावः पापनाशनः
सर्वपापहरं लिगं नृणां दुष्कृतनाशनम्
ढुंढश्चासीत्पुरा देवि कैलासे गणनायकः
गतोऽसौ शक्रलोकं तु कौतुकार्थं यदृच्छया
भावान्बहुविधान्रम्यान्दृष्टिहस्तादिकाञ्छुभान्। सूचीविद्धादिकरणान्पताकादिकहस्तकान्
शक्रोऽपि त्रिदशैः सार्द्धं तन्मुखासक्तलोचनः
एतस्मिन्नंतरे देवि ढुंढस्तल्ललितेन तु
तेन रंगरता रंभा पुष्पगुच्छेन ताडिता
पत त्वं मानुषं लोकं रंगभंगस्त्वया कृतः
पतितो मानुषे लोके विसंज्ञो विह्वलेन्द्रियः
अहोऽन्यायफलं प्राप्तं मया मोहादनुष्ठितम् 5.2.3.
न्यायमार्गं समाश्रित्य येन सिद्धिर्भवेन्मम
इत्युक्त्वा स तपस्तेपे महेंद्रे पर्वतोत्तमे