तस्य तद्वचनं श्रुत्वा हासोऽतीव मया कृतः
ततो विनिर्गतं भस्म तत्क्षणाद्धिमपांडुरम्
पश्य मेंऽगुष्ठतो ब्रह्मन्भूरि भस्म विनिर्गतम्
तद्दृष्ट्वा महदाश्चर्यं लज्जितो द्विजसत्तमः
अब्रवीत्प्रांजलिर्भूत्वा विस्मितेनांतरात्मना
नान्यस्य विद्यते शक्ति रीदृशी भुवनत्रये
तपःक्षयकरं कर्म विरुद्धं नर्त्तनं सताम् तद्गतं सहसा देव मदीयं नर्त्तनेन सु
तस्य तद्वचनं श्रुत्वा मयोक्तो द्विजसत्तमः
ज्ञानेनानेन विप्रेंद्र कं ते कामं करोम्यहम्
ऋषिरुवाच यदि देव प्रसन्नस्त्वं शरणागतवत्सल 5.2.2.
मया प्रोक्तं प्रसन्नेन तस्य विप्रस्य पार्वति
तत्रास्ते सर्वदा पुण्या सप्तकल्पोद्भवा गुहा
तत्र द्रक्ष्यसि यल्लिंगं सप्तकल्पोद्भवं शुभम्
काम क्रोधोद्भवं पापं लोभमोहसमन्वितम्
मदीयं वचनं श्रुत्वा स विप्रो वेदपारगः
निःसृतो नियतो भूत्वा नमस्कृत्य पुनःपुनः
ददर्श तत्र तल्लिंगं तपसो वर्द्धनं परम्
एतस्मिन्नंतरे देवि देवैरुक्तं नभस्तले
सिद्धिः प्राप्ता द्विजेनैव दर्शनेन सुदुर्लभा
भक्त्या परमयोपेता ये द्रक्ष्यंति गुहेश्वरम् 5.2.2.
अष्टम्यां वा चतुर्दश्यां दर्शनं यः करिष्यति
अत्रागत्य प्रयत्नेन दर्शनं यः करिष्यति
कृत्वा पापसहस्राणि दर्शनं यः करिष्यति
ब्रह्महत्या सुरापानं स्तेयं गुर्वंगनागमः
यत्किंचिदशुभं कर्म जन्मकोटिशतार्जितम्
महापातकयुक्ता हि देहिनो ये महीतले
इत्युक्त्वा स द्विजो देवि दिव्यो मंकणको मुनिः
एष वै कथितो देवि प्रभावः पापनाशनः
सर्वपापहरं लिगं नृणां दुष्कृतनाशनम्
ढुंढश्चासीत्पुरा देवि कैलासे गणनायकः