भविष्यंति महात्मानः पुत्रैश्वर्यसमन्विताः 5.2.1.
स्तुता गंधर्वमुख्यैश्च रुद्रलोके च शाश्वते
कृतपुण्या नरा मर्त्त्यास्ते यांति परमं पदम्
अशुभं क्षयमाप्नोति कस्तं न प्रणमेच्छिवम्
मुच्यते ब्रह्महत्यादिपा तकैर्नरकप्रदैः
राजसूयशतेनैव यत्पुण्यं च भविष्यति
किं तीर्थैर्विविधैः स्नानैः किं दानैर्विविधैः कृतैः
अष्टम्यां च चतुर्द्दश्यां दिने सोमस्य शक्तितः कुलानां तारयत्येव मातृकं पितृकं शतम्
ये च पश्यंति पुरुषा भावहीनाः प्रसंगतः
एतत्ते कथितं देवि लिंगमहात्म्यमुत्तमम्
श्रीरुद्रउवाच शृणु गुहेश्वरं लिंगं द्वितीयं पापनाशनम्
पुरा राथंतरे कल्पे देवदारुवने शुभे योगाभ्यासरतो नित्यं शांतिदांतिसमास्थितिः
सिद्धिकामस्तपस्तेपे कथं सिद्धो भवाम्यहम्
इति संचिंत्य हृदये प्रारब्धं तप उत्तमम्
कस्मिंश्चिदथ काले तु विद्धस्य पर्वतात्मजे
स च दृष्ट्वा तदाश्चर्यं विस्मयं परमं गतः
अहो तपःप्रभावोऽयं प्राप्ता सिद्धिर्मयाद्य वै
शरीरं कुत्सितं चेदं मलमूत्रेण संयुतम् हर्षेण महता युक्तः स ननर्त्त द्विजस्तथा
एतस्मिन्नृत्यति विप्रे जगत्स्थावर जंगमम्
न स्वाध्यायो वषट्कारः कर्मकांडो न च क्वचित् ।। 5.2.2.
एतस्मिन्नंतरे देवा ब्रह्मविष्णु पुरःसराः
ऋषौ मंकणके देव नृत्यति नृत्यति सर्वतः
चलिताः पर्वताः स्थानात्क्षुभिता मेघपंक्तयः
स्रोतोमात्रा महानद्यो ग्रहा उन्मार्गतः स्थिताः
त्रैलोक्यं व्याकुलीभूतं यावन्नायाति संक्षयम्
तेषां तद्वचनं श्रुत्वा त्रिदशानां यशस्विनि
द्विजरूपं समास्थाय मया पृष्टो द्विजोत्तमः
विरुद्धमृषिधर्माणां कामरागेण नर्त्तनम्
ब्राह्मणस्य तपो भ्रंशः सदाचारस्य सत्तम
अतएव हि मे नृत्यं सिद्धोऽहं नात्र संशयः ।। 5.2.2.