तस्मिन्स लिंगे देवेशि समाराधनतत्परः 5.2.1.
अहं तुष्टस्तदा देवि मुनेस्तस्य महात्मनः
प्रोक्तं मया महाभाग मुने शृणु समाहितः
तुष्टोऽहमनया भक्त्या तपसा दुष्करेण तु
प्रणष्टा ब्रह्महत्या ते दानवोत्था मुनीश्वर
यदि देव प्रसन्नस्त्वं शरणागतवत्सलः
तपस्यथ तथा धर्मे न मे विघ्नो भवेदिति मया प्रोक्तं विशालाक्षि मुने एवं भविष्यति
यस्त्वया पूजितो देवो ब्रह्महत्याविनाशनः
अगस्त्येश्वरदेवोपि विख्यातो भुवनत्रये कृपया तस्य लिंगस्य पंचमुद्राविभूषितः
ये नरास्तन्महालिंगं निरीक्षिष्यंति भक्तितः
भविष्यंति महात्मानः पुत्रैश्वर्यसमन्विताः 5.2.1.
स्तुता गंधर्वमुख्यैश्च रुद्रलोके च शाश्वते
कृतपुण्या नरा मर्त्त्यास्ते यांति परमं पदम्
अशुभं क्षयमाप्नोति कस्तं न प्रणमेच्छिवम्
मुच्यते ब्रह्महत्यादिपा तकैर्नरकप्रदैः
राजसूयशतेनैव यत्पुण्यं च भविष्यति
किं तीर्थैर्विविधैः स्नानैः किं दानैर्विविधैः कृतैः
अष्टम्यां च चतुर्द्दश्यां दिने सोमस्य शक्तितः कुलानां तारयत्येव मातृकं पितृकं शतम्
ये च पश्यंति पुरुषा भावहीनाः प्रसंगतः
एतत्ते कथितं देवि लिंगमहात्म्यमुत्तमम्
श्रीरुद्रउवाच शृणु गुहेश्वरं लिंगं द्वितीयं पापनाशनम्
पुरा राथंतरे कल्पे देवदारुवने शुभे योगाभ्यासरतो नित्यं शांतिदांतिसमास्थितिः
सिद्धिकामस्तपस्तेपे कथं सिद्धो भवाम्यहम्
इति संचिंत्य हृदये प्रारब्धं तप उत्तमम्
कस्मिंश्चिदथ काले तु विद्धस्य पर्वतात्मजे
स च दृष्ट्वा तदाश्चर्यं विस्मयं परमं गतः
अहो तपःप्रभावोऽयं प्राप्ता सिद्धिर्मयाद्य वै
शरीरं कुत्सितं चेदं मलमूत्रेण संयुतम् हर्षेण महता युक्तः स ननर्त्त द्विजस्तथा
एतस्मिन्नृत्यति विप्रे जगत्स्थावर जंगमम्
न स्वाध्यायो वषट्कारः कर्मकांडो न च क्वचित् ।। 5.2.2.