यानि तीर्थानि वंद्यानि यानि लिंगानि संति वै
क्षेत्रमाद्यं महादेवि ममातीव प्रियं सदा ।। 5.2.1.
यत्रास्ति च महापुण्या सर्वपापहरा परा
नीलगंगा चतुर्थी तु श्रेष्ठा नद्यः प्रकीर्तिताः
गंगायास्त्रिगुणं देवि चतुर्वर्गफलप्रदम्
सिद्धलिंगानि तिष्ठंति भुक्तिमुक्तिकराणि च
एकादश तथा रुद्रा आदित्या द्वादश स्मृताः
यदाहं गतवांस्तत्र महाकालवने शुभे
एभिर्व्याप्तं क्षेत्रमिदं देवि योजनमायतम्
तानि विस्तरतो ब्रूहि सर्वपापहराणि तु
ख्यातं पृथिव्यां प्रथममगस्त्येश्वरमुत्तमम् 5.2.1.
उमोवाच अगस्त्येश्वरनामेह कथं लब्धमनेन वै
सर्वपापप्रशमनीं समीहितफलप्रदाम्
पुराऽसुरैर्जिता देवा निरुत्साहाश्च ते ततः भ्रष्टैश्वर्य्यास्तदा देवि चेरुर्देवा महीतले
ततः कदाचित्ते दीना दीप्तमादित्यवर्चसम्
अभिवाद्य ततो देवा दृष्ट्वा तं तेजसा वृतम्
दानवैर्निर्जिता युद्धे सर्वे स्वर्गाच्च पातिताः
इत्युक्तः स तदा देवैरगस्त्यः कुपितोऽभवत्
तदा दीप्तांशुजालेन निर्दग्धा दानवास्तथा
दह्यमानास्ततो दैत्या स्तस्यागस्त्यस्य तेजसा
ततो ऽगस्त्यो महात्मा वै तान्हत्वा शोकमूर्छितः 5.2.1.
कृतं घोरं महत्पापं हता यद्दानवा मया किं करोमि क्व गच्छामि कथं शुध्येय चाप्यहम्
एवं चिंतयतस्तस्य समागच्छत्पितामहः
लक्ष्यसे मुनिशार्दूल कारणं कथ्यतां त्वरम्
देवदेव जगन्नाथ दाहोंतर्मानसं मम
ममोपायं समाचक्ष्व प्रसादत्सुरसत्तम
प्रोवाचेदं सुरश्रेष्ठः शृणु त्वं यत्नतः परम्
महाकालवने दिव्ये यक्षगंधर्वसेविते
पिशाचस्यापि तीर्थस्य भागे दक्षिणतः स्थितम्
आराधय शुभं लिंगं सर्वपापप्रणा शनम्