पुष्कराद्यानि तीर्थानि यानि कानि महीतले
असंख्यातसहस्राणि कोटिकोटीनि सत्तम
नीहारकणिकावृष्टिं गिरौ वर्षंति किन्नराः 5.1.71.
न हि संख्यां विजानामि तीर्थानां भुवि सत्तम
तथाऽपि च प्राधान्येन कथयिष्यामि सत्तम
तावंति प्रापणीयानि प्रसिद्धानि परंतप
विधिवत्कुरुते यस्तु साक्षाच्छंभुर्भवेच्च सः
तत्फलं जायतेऽवंत्यां वैशाखे पंचभिर्दिनैः
माधवेऽपि विशेषेण ह्यवंतीस्नानमाचरेत्
संवत्सरव्रती स्नातस्तीर्थेतींर्थे यथाविधि
भुक्त्वा भोगान्सुविपुलाञ्छिवलोके महीयते
माहात्म्यमेतच्छिवभक्तिवर्द्धनं यशस्करं पुण्यविवर्द्धनं च
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पंचम आवंत्यखंडेऽवन्तीक्षेत्रमाहात्म्ये व्याससनत्कुमारसंवादे ऽवन्तीक्षेत्रमाहात्म्यवर्णनंनामैक सप्ततितमोऽध्यायः
(५-२) श्रीगणेशाय नमः कथ्यतां तानि यत्नेन श्राद्धं येषु प्रदीयते
सेविता देवगंधर्वैर्मुनिभिश्च निषेविता
तपनस्य सुता देवी यमुना लोकपावनी
चन्द्रभागा वितस्ता च नर्मदाऽमरकंटके
केदारं पुष्करं चैव तथा कायावरोहणम्
यत्रास्ते श्रीमहाकालः पापेंधनहुताशनः
भुक्तिदं मुक्तिदं क्षेत्रं कलिकल्मषनाशनम्
यानि तीर्थानि वंद्यानि यानि लिंगानि संति वै
क्षेत्रमाद्यं महादेवि ममातीव प्रियं सदा ।। 5.2.1.
यत्रास्ति च महापुण्या सर्वपापहरा परा
नीलगंगा चतुर्थी तु श्रेष्ठा नद्यः प्रकीर्तिताः
गंगायास्त्रिगुणं देवि चतुर्वर्गफलप्रदम्
सिद्धलिंगानि तिष्ठंति भुक्तिमुक्तिकराणि च
एकादश तथा रुद्रा आदित्या द्वादश स्मृताः
यदाहं गतवांस्तत्र महाकालवने शुभे
एभिर्व्याप्तं क्षेत्रमिदं देवि योजनमायतम्
तानि विस्तरतो ब्रूहि सर्वपापहराणि तु