सोमनाथेश्वरः ख्यातो घुष्मेश्वरस्ततः परः। भीमशंकर इत्याख्यो घंटेश्वरस्ततः परः
ऊषरेश्वरसंज्ञश्च चन्द्रादित्येश्वरः परः
रामेश्वरः परो देवो वाल्मीकेश्वरशंकरः
विघ्नहस्तेश्वरः प्रोक्तश्चंचलेशस्ततः परः 5.1.70.
कर्णेश्वरश्च विख्यातः पृथुकेशस्ततः परम्
अविमुक्तेश्वरः प्रोक्तो हनुमत्केश्वरः परः
बिंदुकेशश्च विख्यातो वालुकेश्वरसंज्ञकः
यानि कानि च तीर्थानि तानि लिंगानि सत्तम
चत्वारो विदिताः सर्वे द्वारपाला महात्मभिः
दक्षिणे च तथा द्वारे कायावरोहणेश्वरः
दर्दुरेश्वरस्ततः प्रोक्तो द्वारे चोत्तरसंज्ञिके
महाकालवने रम्ये समाख्याता हि पावनाः
महाकालवने व्यास लिंगसंख्या न विद्यते
यस्य देवस्य यत्तीर्थं तन्नाम्ना परिकीर्तितम् 5.1.70.
तथा नवग्रहाः पुण्याः समाख्याताः पुराऽनघ
नरादित्य इति ख्यातः सोमेश्वरस्ततः परः
बृहस्पतीश्वरः प्रोक्तस्तथा शुक्रेश्वरः शिवः
ग्रहा राज्यं प्रयच्छंति ग्रहा राज्यं हरंति च
ग्रहतीर्थे नरः स्नात्वा ग्रहाणामर्चनं चरेत्
एवं व्यास समाख्याता मया देवाश्च तीर्थकाः
ग्रहपीडासु चोग्रासु दारिद्र्ये घोरसंकटे
क्षेत्रस्यांतर्गृहीं नित्यं ये कुर्वंति नरोत्तमाः
अपुत्रो लभते पुत्रं निर्धनो धनमाप्नुयात् 5.1.70.
अक्षया संततिस्तस्य शिवलोके महीयते
अवंतीतीर्थमाहात्म्यं पवित्रं वेदसंमितम्
भूयस्तु श्रोतुमिच्छामि त्वत्तो ब्रह्मविदां वर तीर्थानि कतिसंख्यानि विद्यंते ह्यत्र सुव्रत
उमामहेश्वरसंवादं नारदस्य च धीमतः
तीर्थानि यानि वर्तंते तानि नो वद विस्तरात्
इति पृष्टस्तदा विप्र नारदेन पुराऽनघ
तीर्थानि यानि तिष्ठंति तानि वक्ष्यामि सुव्रत