रूपेश्वरेति विख्यातो ब्रह्मेश्वरस्ततः परम्
पिशाचेश्वरशंभुश्च संगमेशस्ततः परः
करभेश्वरः परः प्रोक्तो राजस्थलेश्वरः शिवः
पुष्पदंतेश्वरो देवो ह्यविमुक्तेश्वरस्ततः 5.1.70.
स्वप्नेश्वर इति ख्यातः सिद्धेश्वरस्ततः परः
कामेश्वर इति प्रोक्तः प्रतिहारेश्वरस्ततः स्वर्णजालेश्वरः प्रोक्तो मनःकामेश्वरस्ततः
दुर्वासेश्वरनामासौ नागचंडेश्वरस्ततः
पातालेश्वर आख्यातो गुप्तेश्वरस्ततः परः
भीमेश्वरेति विख्यातो धनुःसहस्राभिधः परः
गदाधरेश्वरः ख्यातो वैजनाथेति शंभुराट्
सोमनाथेश्वरः ख्यातो घुष्मेश्वरस्ततः परः। भीमशंकर इत्याख्यो घंटेश्वरस्ततः परः
ऊषरेश्वरसंज्ञश्च चन्द्रादित्येश्वरः परः
रामेश्वरः परो देवो वाल्मीकेश्वरशंकरः
विघ्नहस्तेश्वरः प्रोक्तश्चंचलेशस्ततः परः 5.1.70.
कर्णेश्वरश्च विख्यातः पृथुकेशस्ततः परम्
अविमुक्तेश्वरः प्रोक्तो हनुमत्केश्वरः परः
बिंदुकेशश्च विख्यातो वालुकेश्वरसंज्ञकः
यानि कानि च तीर्थानि तानि लिंगानि सत्तम
चत्वारो विदिताः सर्वे द्वारपाला महात्मभिः
दक्षिणे च तथा द्वारे कायावरोहणेश्वरः
दर्दुरेश्वरस्ततः प्रोक्तो द्वारे चोत्तरसंज्ञिके
महाकालवने रम्ये समाख्याता हि पावनाः
महाकालवने व्यास लिंगसंख्या न विद्यते
यस्य देवस्य यत्तीर्थं तन्नाम्ना परिकीर्तितम् 5.1.70.
तथा नवग्रहाः पुण्याः समाख्याताः पुराऽनघ
नरादित्य इति ख्यातः सोमेश्वरस्ततः परः
बृहस्पतीश्वरः प्रोक्तस्तथा शुक्रेश्वरः शिवः
ग्रहा राज्यं प्रयच्छंति ग्रहा राज्यं हरंति च
ग्रहतीर्थे नरः स्नात्वा ग्रहाणामर्चनं चरेत्
एवं व्यास समाख्याता मया देवाश्च तीर्थकाः