दशैते वैष्णवाः प्रोक्ताः सर्वपापहराः पराः
महाकालवने रम्ये ये वसंति सुरेश्वराः
विनायका भैरवा देव्यो ये संति पवनात्मजाः
विघ्नहा च प्रमोदी च चतुर्थीव्रतकप्रियः
षडेते वै समाख्याता विघ्ननाशकराः पराः 5.1.70.
वटयक्षिणी वीरभद्रा इत्येताश्चाष्ट मातरः महामाया सती ख्याता कपालमातृका तथा
ब्रह्माणी पार्वती चैव योगिनी योगशालिनी
चर्पटामातृकाः ख्याता वटमातर एव च
योगिनीमातृका ख्याताश्चतुषष्टिस्ततः स्मृताः
वैष्णवी च समाख्याता वाराही विंध्यवासिनी
हनूमान्ब्रह्मचारी च कुमारश्च महाबली
दंडपाणिश्च विक्रांतो महाभैरवसिताऽसिताः
कालभैरवश्च विख्यातः क्षेत्रपालस्तथाष्टमः कपर्दी च कपाली च कला नाथो वृषासनः
त्र्यंबकः शूलपाणिश्च चीरवासा दिगम्बरः 5.1.70.
रुद्राश्चैकादश प्रोक्ताः शत्रुपक्षविनाशनाः
सुवर्णरेताऽहःकर्ता मित्रो विष्णुः सनातनः
अगस्त्येश्वरमुख्यानां लिंगानां चतुराशिनाम्
अगस्त्वेश्वर आख्यातो गुहेश्वरस्ततः परम्
अनादिकल्पेश्वरः शंभुः स्वर्णजालेश्वरः परः
कर्कोटकेश्वरः शंभुः सिद्धेश्वरस्ततः परम्
इन्द्रद्युम्नेश्वरः ख्यात ईशानेशस्ततः परम्
अप्सरेश्वरइतिख्यातः कल्कलेश्वर एव च
प्रतिहारेश्वरश्चैव कुक्कुटेशस्ततः परम्
अनरकेश्वरो देवो जटेश्वरस्ततः परम्।। 5.1.70.
रामेश्वरो महादेवश्च्यवनेशस्ततः परम्
आनंदेशस्ततः प्रोक्तः कंथडेशस्ततः परम्
शिवेश्वर इति प्रोक्तः कुसुमेशस्ततः परम्
लुम्पेश्वरः समाख्यातो गंगेश्वरस्ततः परम्
कंटकेशो महारुद्रः सिंहेश्वरस्ततः परम्
प्रयागेश्वरो महादेवः सिद्धेश्वरस्ततः परम्