भाद्रपदसिताष्टमी मैत्रर्क्षेण समन्विता
करोति सततं व्यास तेषां लोकाः सनातनाः
बिन्दुसरेति विख्यातं सर्वकामवरप्रदम्
एताः सरिद्वरा यातास्तत्र सत्यवतीसुत
उपासांचक्रिरे तत्र तस्य तीर्थस्य सर्वदा
भाद्रपदे च शुक्ला वै चतुर्थी या प्रकीर्तिता
मनःकामेश्वरः ख्यातः सर्वकामवरप्रदः मनोरथशतं प्राप्य कामचारी भवेन्नरः ।।5.1.70.
तीर्थानि कतिसंख्यानि देवतायतनानि च
अवन्त्यां यानि तीर्थानि लिंगानि च महामुने
तानि वर्णयितुं शक्तः स्वयंभूश्चतुराननः
यावंतो मेघमालानां बिंदवो हि स्रवंति च
नभसो ज्योतिषां संख्यां वक्तुं कोऽपि न शक्नुते
अंतरिक्षे च मेदिन्यां तीर्थभूता पुरी त्वियम्
नद्यः सरांसि खाताश्च तीर्थभूतं हि सर्वशः
यानि कानि च मुख्यानि तानि तुभ्यं वदाम्यहम्
प्रातरुत्थाय यो नित्यं शुचिः प्रयत मानसः 5.1.70.
कृत्वा वै सर्वगंधादितिलाक्षतसमन्वितः
ऊर्जमाधवयोश्चैव वैशाखाऽऽषाढयोस्तथा
यस्य देवस्य यत्तीर्थं यस्य देवस्य संनिधौ
विधिवच्चाचरेद्यस्तु स सर्वंफलमश्नुते
तत्सर्वं श्रोतुमिच्छामि विस्तरेण तपोधन
उमामहेश्वरसंवादं देवयात्रादिकर्मसु
यानि तीर्थानि विद्यंते यानि लिंगानि संति वै
क्षेत्रमाद्यं महादेवि ममातीव प्रियं सदा
नीलगंगासंगमं च तथा गंधवती नदी 5.1.70.
ईश्वराश्चतुराशीतिस्तथाऽष्टौ संति भैरवाः
षड्वै विनायकाश्चाऽत्र देव्यश्च चतुर्विंशतिः
विष्णुब्रह्मादयः सर्वे ह्यत्रैव निहिताः शुभे
दश विष्णुः समाख्यातास्तेषां नामानि मे शृणु
नारायणो हृषीकेशो वाराहो धरणीधरः