यमलोके चिरं वासो जायते नाऽत्र संशयः
आत्मानं हि पणीकृत्य तत्रैव संनियोजयेत्
पश्चाद्घृतसुवर्णेन मोचयित्वा स्वकं नयेत्
यस्य शिप्रोदके स्नानं कर्कराजेऽनुजायते
पृथिव्यां यानि तीर्थानि सरितः सागराश्च ये
तस्माच्च तद्वरं तीर्थं कर्कराज इति स्मृतम्
य एतां वै कथां पुण्यां शृण्वंति श्रावयंति च
ऋषभः पर्वतश्रेष्ठो देवगन्धर्वसेवितः
यत्र देवांगना रम्याः क्रीडन्ति सततं द्विज
तत्र तीर्थे नरः स्नात्वा सुभगो जायते ध्रुवम्
भाद्रपदसिताष्टमी मैत्रर्क्षेण समन्विता
करोति सततं व्यास तेषां लोकाः सनातनाः
बिन्दुसरेति विख्यातं सर्वकामवरप्रदम्
एताः सरिद्वरा यातास्तत्र सत्यवतीसुत
उपासांचक्रिरे तत्र तस्य तीर्थस्य सर्वदा
भाद्रपदे च शुक्ला वै चतुर्थी या प्रकीर्तिता
मनःकामेश्वरः ख्यातः सर्वकामवरप्रदः मनोरथशतं प्राप्य कामचारी भवेन्नरः ।।5.1.70.
तीर्थानि कतिसंख्यानि देवतायतनानि च
अवन्त्यां यानि तीर्थानि लिंगानि च महामुने
तानि वर्णयितुं शक्तः स्वयंभूश्चतुराननः
यावंतो मेघमालानां बिंदवो हि स्रवंति च
नभसो ज्योतिषां संख्यां वक्तुं कोऽपि न शक्नुते
अंतरिक्षे च मेदिन्यां तीर्थभूता पुरी त्वियम्
नद्यः सरांसि खाताश्च तीर्थभूतं हि सर्वशः
यानि कानि च मुख्यानि तानि तुभ्यं वदाम्यहम्
प्रातरुत्थाय यो नित्यं शुचिः प्रयत मानसः 5.1.70.
कृत्वा वै सर्वगंधादितिलाक्षतसमन्वितः
ऊर्जमाधवयोश्चैव वैशाखाऽऽषाढयोस्तथा
यस्य देवस्य यत्तीर्थं यस्य देवस्य संनिधौ
विधिवच्चाचरेद्यस्तु स सर्वंफलमश्नुते