नारायणाऽग्रतः स्नानं क्षेत्रे तीर्थे नदीषु च
यश्च स्नाति नरो नित्यं स याति वैष्णवं पदम्
पृथिव्यां यानि तीर्थानि पुण्यान्यायतनानि च
कर्कस्थे च दिवानाथे स्नानं कुर्वंति ये नरा
चातुर्मास्यं समासाद्य तत्रैव निवसाम्य हम्
महेशान्नाऽपरो देवो मुक्तिदो न जनार्दनात्
कर्कराजसमं तीर्थं नास्ति वत्स महीतले
एवं व्यास समाख्यातं ब्रह्मणा भार्ग वाय च
अस्माकं चाऽपि तत्रैव स्थानं परमशोभनम्
तावत्कालं हि तत्रैव मुक्तिरेव न संशयः 5.1.69.
यमलोके चिरं वासो जायते नाऽत्र संशयः
आत्मानं हि पणीकृत्य तत्रैव संनियोजयेत्
पश्चाद्घृतसुवर्णेन मोचयित्वा स्वकं नयेत्
यस्य शिप्रोदके स्नानं कर्कराजेऽनुजायते
पृथिव्यां यानि तीर्थानि सरितः सागराश्च ये
तस्माच्च तद्वरं तीर्थं कर्कराज इति स्मृतम्
य एतां वै कथां पुण्यां शृण्वंति श्रावयंति च
ऋषभः पर्वतश्रेष्ठो देवगन्धर्वसेवितः
यत्र देवांगना रम्याः क्रीडन्ति सततं द्विज
तत्र तीर्थे नरः स्नात्वा सुभगो जायते ध्रुवम्
भाद्रपदसिताष्टमी मैत्रर्क्षेण समन्विता
करोति सततं व्यास तेषां लोकाः सनातनाः
बिन्दुसरेति विख्यातं सर्वकामवरप्रदम्
एताः सरिद्वरा यातास्तत्र सत्यवतीसुत
उपासांचक्रिरे तत्र तस्य तीर्थस्य सर्वदा
भाद्रपदे च शुक्ला वै चतुर्थी या प्रकीर्तिता
मनःकामेश्वरः ख्यातः सर्वकामवरप्रदः मनोरथशतं प्राप्य कामचारी भवेन्नरः ।।5.1.70.
तीर्थानि कतिसंख्यानि देवतायतनानि च
अवन्त्यां यानि तीर्थानि लिंगानि च महामुने
तानि वर्णयितुं शक्तः स्वयंभूश्चतुराननः