यथा मोक्षमिहायांति नान्यत्र हि तथा क्वचित् महाक्षेत्रमिदं यस्मादयोध्याभिधमुत्तमम्
नैमिषे च कुरुक्षेत्रे गंगाद्वारे च पुष्करे
इह संप्राप्यते यद्वत्तत एव विशिष्यते सर्वस्मादपि तीर्थाग्र्यादिदमेव महत्कृतम् ।। 2.8.8.
अव्यक्तलिंगैर्मुनिभिः सर्वैः सिद्धैर्महर्षिभिः
तेभ्यः प्रयच्छति हरिर्योगमैश्वर्य्यमुत्तमम्
ब्रह्मा देवर्षिभिः सार्द्धं श्रीश्च वायुर्दिवाकरः
उपासते महात्मानः सर्वत्र हरिमादरात् अनन्यमनसो भूत्वा सर्वदोपासते हरिम्
विषयासक्तचित्तोऽपि त्यक्तधर्मरतिर्नरः
ये पुनर्निगमाधीनाः सत्रस्था विजितेंद्रियाः
देहभंगं समापद्य धीमंतः संगवर्जिताः
जन्मान्तरसहस्रेषु युञ्जन्योगी न चाप्नुयात्
एतत्संक्षेपतो वच्मि क्षेत्रस्य महिमाद्भुतम् एतादृङ्नापरं स्थानं पुनरन्यत्र दृश्यते
अत्र गत्वा प्रयत्नेन यात्रा पुण्याभिकांक्षिभिः ।। 2.8.8.
प्रथमेऽहनि कर्त्तव्य उपवासो यतात्मभिः
उपावृत्तस्तु पापेभ्यो यस्य वासो गुणैः सह
उपवासं विधायासौ चक्रतीर्थे नरः कृती
विप्रं संपूज्य विधिवत्पश्येद्विष्णुहरिं विभुम्
क्षौरं च कारयेत्तत्र व्रती धर्माभिधे ततः
स्नात्वा सहस्रधारायां शेषं संपूज्य यत्नतः
ततश्चक्रहरिं दृष्ट्वा दद्याच्चैव स्वशक्तितः महाविद्यासमीपे तु रात्रौ जागरणं चरेत्
ततः प्रभाते विमले पुनरुत्थाय सद्व्रती
श्राद्धं च विधिवत्कृत्वा दत्त्वा चैव स्वशक्तितः
दंपती च प्रयत्नेन पूज्यौ वस्त्रादिभिस्तथा 2.8.8.
विप्रान्संपूज्य विधिवद्भुंजीत प्रयतो नरः
अन्येद्युरपि चोत्थाय श्रद्धया परया युतः
तत्रतत्र नरः स्नात्वा दत्त्वा चैव स्वशक्तितः
यात्रां समापयेत्सम्यङ्नियतात्मा शुचिव्रतः
विभीषणपुरोगास्ते बभूवुर्निर्मलास्तदा
इति बहुलविधानैस्तीर्थयात्रां विधाय प्रचुरसुकृतपूर्णास्ते च सुग्रीवमुख्याः
गयाकूपमिति ख्यातं सर्वाभीष्टफलप्रदम्