यच्छुत्वा भारते खण्डे नृणां मुक्तिर्न दुर्लभा ।। 5.1.69.
मुक्तिप्रदोऽयं भगवान्संसारोत्तारकारणः
मानुष्यं दुर्लभं लोके तत्राऽपि च कुलीनता
सत्संगमो न यत्राऽस्ति विष्णुभक्तिर्व्रतानि न
चातुर्मास्ये ऽव्रती यस्तु तस्य पुण्यं निरर्थकम्
विष्णुमाश्रित्य तिष्ठंति चातुर्मास्ये समागते
सुपुष्टेन च देहेन जीवितं तस्य शोभनम्
कृतार्थास्तस्य विबुधा यावज्जीवं वरप्रदाः
तस्य पापशतान्याहुर्देहस्थानि न संशयः
चातुर्मास्ये विशेषेण सुप्ते देवे जनार्दने।। चातुर्मास्ये नरः स्नात्वा कर्करात्रे द्विजोत्तम । देहशुद्धिं विधायाऽऽदौ मुक्तिमार्गमवाप्नुयात्
तत्राऽपि निर्झरे कूपे तडागे वा सरस्यपि 5.1.69.
तेषु यः स्नाति वै नित्यं तस्य पापक्षयो भवेत्
तस्मान्नद्यधिका पुण्या समाख्याता सुरासुरैः
चातुर्मास्ये तु यः स्नाति पुण्यसंख्या ततोऽधिका रेवायां भास्करे क्षेत्रे प्राच्यां सागरसंगमे
एकाहमपि यः स्नाति चातुर्मास्ये न दुःखभाक्
सुप्ते देवे जगन्नाथे पापं याति सहस्रधा
स भित्त्वा कर्मजं देहं याति विष्णोः सलोकताम् क्षणमेकं क्षणार्धं वा चातुर्मास्ये ऽतिलंघयेत्
तिलोदकेनामलसंयुतेन बिल्वोदकेनापि च मज्जयेद्यः
गंगां स्मरति यो नित्यमुदपानसमीपतः
गंगाऽपि देवदेवस्य चरणांऽगुष्ठवाहिनी 5.1.69.
चातुर्मास्ये जलगतो देवो नारायणो भवेत्
स्नानं दशविधं कार्यं विष्णुनाम्ना महाफलम्
विना स्नानं तु यत्कर्म पुण्यकार्यमयं शुभ म्
स्नानेन सत्यमाप्नोति सत्ये धर्मः सनातनः
ये चाध्यात्मविदः पुण्या ये च वेदांतपारगाः
कृतस्नानस्य हि हरिर्देहमाश्रित्य तिष्ठ ति
सर्वपापविनाशाय देवतातोषणाय च
निशायां चैव न स्नायात्संध्यायां ग्रहणं विना
भानुसंदर्शनाच्छुद्धिर्विहिता सर्वकर्मसु
अशक्त्यां तु शरीरस्य भस्मस्नानेन शुध्यति 5.1.69.