तेन पुण्यप्रभावेन नोऽस्माकं कारणं क्वचित्
एवं तैर्मोचितो विप्रः पुनर्ब्रह्मगतिं गतः
किं तपः किं च दानं च किं तीर्थव्रतसेवनम्
येन पुण्यप्रभावेन व्रतभंगो न जायते
यत्र रुद्रसरः प्रोक्तमृषिणा तत्त्वदर्शिना ।। 5.1.68.
कोटिकोटिसुतीर्थानि वर्तंते द्विजसत्तम
तत्तीर्थस्योत्तरे भागे सुतीर्थं सर्वकामदम्
यस्य दर्शनमात्रेण सर्वयज्ञफलं लभेत्
इति तस्य वचः श्रुत्वा स द्विजोऽगात्कुमुद्वतीम्
सद्यः पुण्यवतांलोकान्प्राप्तो वै द्विजसत्तमः
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखण्डेऽवन्तीक्षेत्रमाहात्म्येऽखंडेश्वरमहिमवर्णननामाष्टषष्टितमोऽध्या यः
कीर्तितं ब्रह्मणा पूर्वं मार्कंडेयस्य पृच्छतः
शृणु वत्स महीपृष्ठे शिप्रा दिव्यतरा नदी
यस्य दर्शनमात्रेण महापापक्षयो भवेत्
तस्य स्थाने गतो भानुर्याम्यायनकरः परः
तत्र मृताः प्रवर्तंते योगिनोऽपि परंतप
न तेषां सद्गतिर्वत्स सत्यमेव ब्रवीमि ते
तेषामुद्धरणार्थाय तीर्थमेतद्विनिर्मितम्
चराचरमिदं विश्वं जगत्सर्वं जगत्पते
चातुमास्ये हरौ सुप्ते धर्माऽऽचारविधिः स्मृतः
यच्छुत्वा भारते खण्डे नृणां मुक्तिर्न दुर्लभा ।। 5.1.69.
मुक्तिप्रदोऽयं भगवान्संसारोत्तारकारणः
मानुष्यं दुर्लभं लोके तत्राऽपि च कुलीनता
सत्संगमो न यत्राऽस्ति विष्णुभक्तिर्व्रतानि न
चातुर्मास्ये ऽव्रती यस्तु तस्य पुण्यं निरर्थकम्
विष्णुमाश्रित्य तिष्ठंति चातुर्मास्ये समागते
सुपुष्टेन च देहेन जीवितं तस्य शोभनम्
कृतार्थास्तस्य विबुधा यावज्जीवं वरप्रदाः
तस्य पापशतान्याहुर्देहस्थानि न संशयः
चातुर्मास्ये विशेषेण सुप्ते देवे जनार्दने।। चातुर्मास्ये नरः स्नात्वा कर्करात्रे द्विजोत्तम । देहशुद्धिं विधायाऽऽदौ मुक्तिमार्गमवाप्नुयात्