तस्य पापं क्षयं याति शिवलोके महीयते
अश्वमेधफलं तस्य जागरे च क्षणेक्षणे
कृत्वा तु विधिवद्व्यास शिवपूजाऽर्चनं तथा
कपिलानां सवत्सानां सहस्राणि चतुर्दश
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डेऽवन्तीक्षेत्र माहात्म्ये कुटुंबेश्वरमाहात्म्यवर्णनंनाम सप्तषष्टितमोऽध्यायः
देवप्रयागमाख्यातं सर्वपापप्रणाशनम्
देवानां च परं स्थानं यत्र तीर्थं परंतप
क्षिप्रायाः पूर्वभागे च तत्र तीर्थं प्रतिष्ठितम्
देवं माधवमित्याख्यं भुवि सर्वफलप्रदम्
आनंदभैरवस्तत्र सर्वदेवनमस्कृतः
न तस्य जायते व्यास यातना भैरवी कदा
ज्येष्ठे मासे सिते पक्षे दशम्यां बुध हस्तयोः दशाला जायते वत्स गंगाजन्म परं शुचि
तद्दिने च नरः स्नात्वा सर्वतीर्थफलं लभेत्
यस्य श्रवणमात्रेण व्रतभंगो न जायते
बहुव्रतधरो दांतो वेदवेदांगपारगः।। 5.1.68.
किंचिद्दोषप्रसंगेन व्रतपूर्तिर्न चाभवत्
तस्य गेहागतो ब्रह्मन्नातिथ्यार्थं महातपाः
सत्कृत्य नारदं भूमन्विधिदृष्टेन कर्मणा
भगवन्भवता सर्वं विदितं ज्ञानचक्षुषा
येन पापप्रसंगेन व्रतभंगोऽभवद्ध्रुवम्
महाराष्ट्रे सुविख्यातो ब्राह्मणो धनसंचकः
ब्रह्मदत्तेत्यसौ विप्रो वेदब्राह्मणनिंदकः
नास्तिको देवतीर्थेषु परद्रव्यापहारकः
एवमायुःपरिक्षीणो धनहीनोऽभवत्तदा
गतश्चौर्यप्रसंगेन यात्रिकैः सह संगतः 5.1.68.
नीतः संयमिनीं विप्रस्तत्कालं यमकिंकरैः
दृष्टोऽसौ धर्मराजेन तदा पत्यपरायणः
शृणुध्वं किंकराः सर्वे यूयमेकाग्रमानसाः
गोदातीरे मृतः पापी तत्र नः कारणं न हि
आयांति गौतमीतीरे सिंहस्थेऽपि बृहस्पतौ