तस्य तीर्थवरं तीर्थं सर्वतीर्थफलप्रदम्
कुटुम्बार्थं तपस्तेपे पुरा दक्षः प्रजापतिः
प्रजाकामः स धर्मात्मा सुचिरं व्रतमाचरत्
अस्मिंस्तीर्थे शुचिः स्नातो जपन्ब्रह्म सनातनम्
तेन तीर्थप्रसादेन लभेत्स बहुलां प्रजाम्
ब्रह्माऽपि तत्र वै पश्चात्तपः कृत्वा सुदुष्करम्
महादेवोऽपि तत्रैव प्राप्तवान्ब्रह्मणः पदम्
भद्रपीठधरा देवी भद्रकालीति विश्रुता
द्वारे तिष्ठति तत्रैव भैरवः क्षेत्रपालकः 5.1.67.
पुत्रवत्पालितो देव्या सदा तिष्ठति तत्स्थले
ऋषयोऽपि महाभागाः सदा पर्वणिपर्वणि
अस्मिंस्तीर्थे सदाचाराः स्नानं कुर्वन्ति ये नराः
महाबाधासु घोरासु महामारीषु तत्परैः
पायसै र्विविधैर्भोगैस्तेषां दोषो न जायते
पूजयेत्क्षेत्त्रपालं च सर्वाऽऽपदि समाहितः
स्नात्वा कुटुंबके तीर्थे पूजयित्वा महेश्वरम्
सौवर्णमणि मुक्ताभिर्वासोऽलंकारसंयुतम्
फाल्गुने च सिते पक्षे या वै चतुर्दशी भवेत्
तद्दिने च नरः स्नात्वा रात्रौ जागरणं चरेत् 5.1.67.
धूपैर्दीपैश्च नैवेद्यैर्वासोऽलंकारकादिभिः
तस्य पापं क्षयं याति शिवलोके महीयते
अश्वमेधफलं तस्य जागरे च क्षणेक्षणे
कृत्वा तु विधिवद्व्यास शिवपूजाऽर्चनं तथा
कपिलानां सवत्सानां सहस्राणि चतुर्दश
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डेऽवन्तीक्षेत्र माहात्म्ये कुटुंबेश्वरमाहात्म्यवर्णनंनाम सप्तषष्टितमोऽध्यायः
देवप्रयागमाख्यातं सर्वपापप्रणाशनम्
देवानां च परं स्थानं यत्र तीर्थं परंतप
क्षिप्रायाः पूर्वभागे च तत्र तीर्थं प्रतिष्ठितम्
देवं माधवमित्याख्यं भुवि सर्वफलप्रदम्
आनंदभैरवस्तत्र सर्वदेवनमस्कृतः