तिष्ठति परदैवज्ञः सर्वकामार्थसिद्धये
मित्रावरुणपुत्रेण सिद्धिहेतोस्तपस्विना 5.1.66.
नरो नारीसमायुक्तः सावित्रीव्रतमाचरेत्
यस्मिंस्तीर्थे नरः स्नात्वा दत्त्वा दानं च सौभगम्
सप्तधान्यसमोपेतं पंचरत्नपरिष्कृतम्
सावित्रीं हाटकीं कृत्वा यथाशक्ति परंतप
लभते विपुलां लक्ष्मीं बहुभोगकरीं शुभाम्
सावित्रीव्रतकृन्नारी जायते पतिवल्लभा
इति श्रीस्कांदे महापुराण एका शीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे अवन्तीक्षेत्रमाहात्म्ये नृसिंहतीर्थमहिमवर्णनंनाम षट्षष्टितमोऽध्यायः
शृणु व्यास परं तीर्थं भुवि विख्यातमुत्तमम्
तस्य तीर्थवरं तीर्थं सर्वतीर्थफलप्रदम्
कुटुम्बार्थं तपस्तेपे पुरा दक्षः प्रजापतिः
प्रजाकामः स धर्मात्मा सुचिरं व्रतमाचरत्
अस्मिंस्तीर्थे शुचिः स्नातो जपन्ब्रह्म सनातनम्
तेन तीर्थप्रसादेन लभेत्स बहुलां प्रजाम्
ब्रह्माऽपि तत्र वै पश्चात्तपः कृत्वा सुदुष्करम्
महादेवोऽपि तत्रैव प्राप्तवान्ब्रह्मणः पदम्
भद्रपीठधरा देवी भद्रकालीति विश्रुता
द्वारे तिष्ठति तत्रैव भैरवः क्षेत्रपालकः 5.1.67.
पुत्रवत्पालितो देव्या सदा तिष्ठति तत्स्थले
ऋषयोऽपि महाभागाः सदा पर्वणिपर्वणि
अस्मिंस्तीर्थे सदाचाराः स्नानं कुर्वन्ति ये नराः
महाबाधासु घोरासु महामारीषु तत्परैः
पायसै र्विविधैर्भोगैस्तेषां दोषो न जायते
पूजयेत्क्षेत्त्रपालं च सर्वाऽऽपदि समाहितः
स्नात्वा कुटुंबके तीर्थे पूजयित्वा महेश्वरम्
सौवर्णमणि मुक्ताभिर्वासोऽलंकारसंयुतम्
फाल्गुने च सिते पक्षे या वै चतुर्दशी भवेत्
तद्दिने च नरः स्नात्वा रात्रौ जागरणं चरेत् 5.1.67.
धूपैर्दीपैश्च नैवेद्यैर्वासोऽलंकारकादिभिः