तयोः स्नानेन दानेन रामसंपूजनेन च इयं सा परमा मेध्याऽयोध्या धर्मनिधिः स्मृता
इत्युक्तास्तु ततः सर्वे वसिष्ठमुनिमादरात् कथयस्व तपोराशे कथामेतां सुदुर्लभाम्
अयोध्यायाः परं विप्र माहात्म्यं कथयंति यत् 2.8.8.
यथा यात्रां विधास्यामः क्रमेण च विधानतः
यच्छ्रुत्वा सर्वपापेभ्यो मुच्यते नात्र संशय
इदं गुह्यतरं क्षेत्रमयोध्याभिधमुत्तमम्
अस्मिन्सिद्धाः सदा देवा वैष्णवं व्रतमास्थिताः
अभ्यस्यंति परं योगं युक्तप्राणा जितेन्द्रियाः
कमलोत्पलशोभाढ्ये सरोभिः समलंकृते
रोचते हि सदा वासः क्षेत्रे नित्यं हरेरिह
यथा मोक्षमिहायांति नान्यत्र हि तथा क्वचित् महाक्षेत्रमिदं यस्मादयोध्याभिधमुत्तमम्
नैमिषे च कुरुक्षेत्रे गंगाद्वारे च पुष्करे
इह संप्राप्यते यद्वत्तत एव विशिष्यते सर्वस्मादपि तीर्थाग्र्यादिदमेव महत्कृतम् ।। 2.8.8.
अव्यक्तलिंगैर्मुनिभिः सर्वैः सिद्धैर्महर्षिभिः
तेभ्यः प्रयच्छति हरिर्योगमैश्वर्य्यमुत्तमम्
ब्रह्मा देवर्षिभिः सार्द्धं श्रीश्च वायुर्दिवाकरः
उपासते महात्मानः सर्वत्र हरिमादरात् अनन्यमनसो भूत्वा सर्वदोपासते हरिम्
विषयासक्तचित्तोऽपि त्यक्तधर्मरतिर्नरः
ये पुनर्निगमाधीनाः सत्रस्था विजितेंद्रियाः
देहभंगं समापद्य धीमंतः संगवर्जिताः
जन्मान्तरसहस्रेषु युञ्जन्योगी न चाप्नुयात्
एतत्संक्षेपतो वच्मि क्षेत्रस्य महिमाद्भुतम् एतादृङ्नापरं स्थानं पुनरन्यत्र दृश्यते
अत्र गत्वा प्रयत्नेन यात्रा पुण्याभिकांक्षिभिः ।। 2.8.8.
प्रथमेऽहनि कर्त्तव्य उपवासो यतात्मभिः
उपावृत्तस्तु पापेभ्यो यस्य वासो गुणैः सह
उपवासं विधायासौ चक्रतीर्थे नरः कृती
विप्रं संपूज्य विधिवत्पश्येद्विष्णुहरिं विभुम्
क्षौरं च कारयेत्तत्र व्रती धर्माभिधे ततः
स्नात्वा सहस्रधारायां शेषं संपूज्य यत्नतः
ततश्चक्रहरिं दृष्ट्वा दद्याच्चैव स्वशक्तितः महाविद्यासमीपे तु रात्रौ जागरणं चरेत्