जय पापहरानंत जय जन्मज्वरापह
नमः सर्वेश भूतेश नमः कैटभसूदन
नमो देवाधिदेवाय नमो नारायणाय वै
त्वं माता सर्वलोकानां त्वमेव जगतः पिता
त्वं हविस्त्वं वषट्कारस्त्वं प्रभुस्त्वं हुताशनः
शंखचक्रगदापाणे मां समुद्धर माधव
प्रसीद मंदरधर प्रसीद मधुसूदन
आविर्बभूव विश्वात्मा विष्णुर्गरुडवाहनः
शंखचक्रगदापाणिः पीतांबरधरोऽच्युतः
स्तोत्रेणानेन सुमते नष्टपापोऽसि सांप्रतम् ।।2.8.1.
वरं वरय विप्रेन्द्र वरदोऽहं तवाग्रतः
त्वद्भक्तिमचलामेकां मम देहि जगत्पते
श्रीभगवानुवाच भक्तिरस्त्वचला मे वै वैष्णवी मुक्तिदायिनी
इदं स्थानं महाभाग त्वन्नाम्ना ख्यातिमेष्यति
जलं प्रकटयामास गांगं पातालमंडलात्
जलेन तेन भगवान्पवित्रेण दयांबुधिः
चक्रतीर्थमिति ख्यातं ततः प्रभृति तद्द्विज
तत्र स्नानेन दानेन विष्णुलोकं व्रजेन्नरः
ततः स भगवान्भूयो विष्णुशर्माणमच्युतः
विष्णुहरीति विख्याता भक्तानां मुक्तिदायिनी ।।2.8.1.
स्वनामपूर्विकां मूर्तिं स्थापयामास चक्रिणः
ततः प्रभति विप्रेश शंखचक्रगदाधरः
कार्तिके शुक्लपक्षस्य प्रारभ्य दशमी तिथिम्
चक्रतीर्थे नरः स्नात्वा सर्वपापैः प्रमुच्यते
पितॄनुद्दिश्य यस्तत्र पिंडान्निर्वापयिष्यति
चक्रतीर्थे नरः स्नात्वा दृष्ट्वा विष्णुहरिं विभुम्
स्वशक्त्या तत्र दानानि दत्त्वा निष्कल्मषो नरः
अन्यदापि नरस्तत्र चक्रतीथे जितेंद्रियः
इति सकलगुणाब्धिर्ध्येयमूर्तिश्चिदात्मा हरिरिह परमूर्त्या तस्थिवान्मुक्तिहेतोः
विभोर्विष्णुहरेश्चापि पुनराह द्विजोत्तमाः