न वर्तते कालचक्रं महाकालप्रतापतः
हरिश्चंद्रो विमुक्तोऽभूद्गर्ह्यचण्डालयोनितः
एतस्मात्कारणात्सर्वैस्तत्र विश्रम्यतां सदा
एतत्ते वचनं श्रुत्वा महर्षेरास्तिकस्य च
एलापत्रः कंबलश्च कर्कोटकधनंजयौ
पद्मकश्चार्बुदश्चैव नागास्ते सर्व एव हि
तत्र रम्याणि तीर्थानि जातानि परमाणि च
महापुण्यप्रदान्याहुर्महापापहराणि च 5.1.65.
अप्सरोगणसंघैश्च सेव्यंते च सदा वरैः
शेषशायी ह्यलं विष्णुर्भगवान्कमलेक्षणः
श्वेतद्वीपेति विख्याता मणिविक्रांतभूमिका
हंसकारंडकाकादि पिककोकिलसारसाः
निधिरेष महापद्मो नीलोत्पलसुगंधिना
यत्र सुसंस्कृता नार्यो विहरंति सुरांगनाः
यत्र स्नात्वा नरो याति वैकुंठं धाम शोभनम्
तत्र रमासरो नाम तीर्थं परमशोभनम्
एवं व्यास परं स्थानं सर्वपापहरं परम्
अत्र स्नानादिकं कार्यं यत्र संनिहितो हरिः 5.1.65.
कियत्प्रमाणमात्रां च ये ददति वसुंधराम्
अक्षय्या लभ्यते वृद्धिस्तेषां लोकाः सनातनाः
नागानां पूजनं कार्यं श्राद्धं दर्शे विधीयते
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखण्डेऽवन्तीक्षेत्रमाहात्म्ये तीर्थयात्रायां नागतीर्थमहिमवर्णनंनाम पंचषष्टितमोऽध्यायः
तत्तीर्थं सर्वपापघ्नं नृसिंहस्य महात्मनः
यस्य दर्शनमात्रेण सर्वपापं समुत्तरेत्
तेनेयं वसुधा सर्वा संप्राप्ता च दुरात्मना
गौर्भूत्वाऽश्रुमुखी देवैर्ब्रह्माणं शरणं ययौ
उवाच श्लक्ष्णया वाचा तस्याः श्रमं व्यपोहितुम्
वचो वदामि ते तथ्यं देशकालोचितं तथा
गायत्र्युपासना तेन कृता सुनियतात्मना
न दिवा न तथा रात्रौ नांतरिक्षे न भूतले