भूयस्तु श्रोतुमिच्छामि त्वत्तो ब्रह्मविदां वर
कथां पुण्यतमां तुभ्यं भुवि पापहरां पराम्
यस्याः श्रवणमात्रेण शापमुक्तो भवेन्नरः
जनमेजयेन दग्धास्ते मोक्षिता ह्यास्तिकेन च
जनमेजयस्य यज्ञेस्मिन्देवराजस्य संनिधौ
अस्माकं भूतिमन्विच्छन्वासस्यार्थं परंतप
महाकालवने रम्ये या वै कुशस्थली स्मृता
तस्यां हि दक्षिणे भागे पूर्वतीर्थं सना तनम्
योगनिद्रां समासाद्य शेते ब्रह्म सनातनम्
लोमशश्च महातेजास्तत्रैव प्रतितिष्ठति
न वर्तते कालचक्रं महाकालप्रतापतः
हरिश्चंद्रो विमुक्तोऽभूद्गर्ह्यचण्डालयोनितः
एतस्मात्कारणात्सर्वैस्तत्र विश्रम्यतां सदा
एतत्ते वचनं श्रुत्वा महर्षेरास्तिकस्य च
एलापत्रः कंबलश्च कर्कोटकधनंजयौ
पद्मकश्चार्बुदश्चैव नागास्ते सर्व एव हि
तत्र रम्याणि तीर्थानि जातानि परमाणि च
महापुण्यप्रदान्याहुर्महापापहराणि च 5.1.65.
अप्सरोगणसंघैश्च सेव्यंते च सदा वरैः
शेषशायी ह्यलं विष्णुर्भगवान्कमलेक्षणः
श्वेतद्वीपेति विख्याता मणिविक्रांतभूमिका
हंसकारंडकाकादि पिककोकिलसारसाः
निधिरेष महापद्मो नीलोत्पलसुगंधिना
यत्र सुसंस्कृता नार्यो विहरंति सुरांगनाः
यत्र स्नात्वा नरो याति वैकुंठं धाम शोभनम्
तत्र रमासरो नाम तीर्थं परमशोभनम्
एवं व्यास परं स्थानं सर्वपापहरं परम्
अत्र स्नानादिकं कार्यं यत्र संनिहितो हरिः 5.1.65.
कियत्प्रमाणमात्रां च ये ददति वसुंधराम्
अक्षय्या लभ्यते वृद्धिस्तेषां लोकाः सनातनाः