सर्वपापहरं पुण्यं सर्वकामवरप्रदम् 5.1.63.
तस्मिंस्तीर्थे नरः स्नात्वा वीरलोकमवाप्नुयात्
नागानां प्रवरं तीर्थं सर्वकामवरप्रदम्
यस्य दर्शनमात्रेण सर्वदुःखातिगो भवेत्
तीर्थं मुनिवरश्रेष्ठ एतद्विस्तरतो वद
कालचक्रकृताः कृत्या योगिनीनां गणास्तदा
तासां कालीति विख्याता योगिनी परमोत्तमा
तेनैते च विनिर्धूता दोषोत्पाताश्च सत्तम
कालकृत्यास्तदा तेन भ्रंशिताः परमात्मना
कोटरी तामसी माया नवैता मातृकाः स्मृताः
वशीचक्रे स धर्मात्मा सर्वकामवरप्रदाः 5.1.64.
ऊषरस्य परे पूर्वे सोऽपि तिष्ठति सर्वदा
नवमीं चाऽष्टमीं प्राप्य चतुर्दश्यां विशेषतः
विवाहे पुत्रजनने मांगल्ये च शुभे परम्
तांबूलवासगंधाद्यैः पूजयेद्वरद रूपिणम्
एतत्परमकल्याणमेतत्परममंगलम्
सकलकलुषहारी धूर्तदुष्टांऽतकारी सुचिरचरितचारी मुंडमौंजीप्रचारी
विविधरासविलासविलासितं नववधूरवधूतपराक्रमम्
अमलकमलनेत्रं चारुचंद्रावतंसं सकलगुणगरिष्टं कामिनीकामरूपम्
सबलबलविघातं क्षेत्रपालैकपालं विकटकटिकरालं ह्यट्टहासं विशालम्
भवभयपरिहारं योगिनीत्रासकारं सकलसुरगणेशं चारुचंद्रार्कनेत्रम् 5.1.64.
चतुर्भुजं शंखगदाधराऽऽयुधं पीतांबरं सांद्रपयोदसौभगम्
लोकाऽभिरामं भुवनाभिरामं प्रियाभिरामं यशसाभिरामम्
आद्यं ब्रह्मसनातनं शुचिपरं सिद्धिप्रदं कामदं सेव्यं भक्तिसमन्वितं हरिहरैः सृष्ट्यासहं साधुभिः
भैरवाष्टकमिदं पुण्यं प्रातःकाले पठेन्नरः ।। दुःस्वप्ननाशनं तस्य वांछितार्थफलं भवेत्
राजद्वारे विवादे च संग्रामे संकटेतथा
दारिद्र्यदुःखनाशाय पठितव्यं समाहितैः
संसारभयभीतैश्च पूजितो भैरवो वरः
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखण्डे ऽवन्तीक्षेत्रमाहात्म्ये कालभैरवतीर्थयात्रावर्णनंनाम चतुःषष्टितमोऽध्यायः
तस्य तीर्थवरस्याऽपि महिमानं च सत्तम