यज्ञहर्ता यज्ञकर्ता यज्ञेशो यज्ञभुग्विभुः
तिग्मतेजाश्चाल्पतेजाः कर्मसाक्षी मनुर्यमः
अग्निर्वायुसखो वह्निर्वरुणो यादसां पतिः
कुबेरो वित्तवान्वेगो वसुपालो विलासकृत् 5.1.63.
सर्वौषधिकरः श्रीमान्निशाकरदिवाकरः
नीलकंठो वृषी रुद्रो भालचंद्रो ह्युमापतिः
कृमिकीटो मृगव्याधो मृगहा मृगलाञ्छनः
स्मशानवासी मांसाशी दुष्टनाशी वरांतकृत्
सेनानीः सेनदेः स्कंदो महाकालो गणाधिपः
ऋद्धिसिद्धिप्रदो दंती भालचन्द्रो गजाननः
प्रह्रादपोषकर्ता च सर्वदैत्यजनेश्वरः
हेमदो हेमभागीच हिमकर्ता हिमाचलः
लोकालोकांतरो लोकी विलोकी भुवनेश्वरः
विरूपो रूपवान्रागी नृत्यगीतविशारदः 5.1.63.
रविदंष्ट्री च लंकाहा हाहाकारो वरप्रदः 5.1.63.
ब्रह्मज्ञो ब्रह्मदो बह्मज्ञाता च ब्रह्मसंभवः 5.1.63.
सर्वसंगकरो रागी सर्वत्यागी बहिश्चरः 5.1.63.
परानंदः पुराणश्च सम्राड्राज विराजकः 5.1.63.
समुद्रमाथको माथी सर्वरत्नहरो हरिः 5.1.63.
विघ्नकर्ताऽपहर्ता च विघ्ननाशो विनायकः 5.1.63.
पूतनारिः पदाकारी लीलाशकटभंजकः 5.1.63.
दिव्यमाली विमाली च वनमालाविभूषितः 5.1.63.
सीमंतिको गदी गाल्वो विश्वामित्रो दुरासदः 5.1.63.
वज्रप्रहरणो वज्री वृत्रघ्नो वासवानुजः 5.1.63.
विद्यावाञ्जायते विप्रः क्षत्रियो विजयी भवेत् 5.1.63.
तुलसीवनसंस्थाने सरोद्वीपे सुरालये 5.1.63.
एकतः सकला विद्या एकतः सकलं तपः 5.1.63.
ऋत्विजं कश्यपं कृत्वा होतारं भृगुसत्तमम् 5.1.63.
वरुणस्य च यज्ञो वै दृष्टो मे वै पुरानघ 5.1.63.
इत्युक्ते वामनेनाथ बलिर्वचनमब्रवीत् 5.1.63.