उपासनां सुरश्रेष्ठा विष्णोरतु लेतेजसः
इति श्रुत्वा वचस्तस्य ब्रह्मणः शंसितात्मनः
अत्राऽऽगात्य शुचीभूय स्नानदानादिकर्मभिः
ब्रह्माणमथ ते सर्वे पप्रच्छुर्विधिमादरात् 5.1.63.
तत्सर्वं श्रोतु मिच्छामस्त्वत्तो ब्रह्मविदां वर
शुक्लांबरधरं देवं शशिवर्णं चतुर्भुजम्
प्रसन्नवदनं ध्यायेत्सर्वविघ्नोपशांतये
येषामिंदीवरश्यामो हृदयस्थो जनार्दनः
सर्वविघ्नहरस्तस्मै गणाधिपतये नमः
न शक्तो वै प्रजाः कर्तुं विष्णुध्यानपरायणः
सर्वसिद्धेश्वरो दांतो दीर्घायुर्विजितेंद्रियः ततः प्रफुल्लनयनौ सत्कृत्य चेतरेतरम्
पृच्छमानौ परं स्वास्थ्यं सुखासीनौ सुरोत्तमाः
भगवन्केन प्रकारेण प्रजा मेऽनामया भवेत्
सर्वपापहरा पुण्या सर्वसुखप्रदायिनी ।। 5.1.63.
एषा ब्राह्मी महाविद्या न देया यस्य कस्यचित्
ईर्ष्यकाय च रूक्षाय कामिकाय कदाचन
एतद्गुह्यतमं शास्त्रं सर्वपापप्रणाशनम्
विष्णोर्नामसहस्रं च विष्णुभक्तिकरं शुभम्
ॐ अस्य श्रीविष्णुसहस्रनामस्तोत्रमंत्रस्य मार्कंडेय ऋषिः विष्णुर्देवता अनुष्टुप्च्छंदः सर्वकामावात्यर्थे जपे विनियोगः सजलजलदनीलं दर्शितोदारशीलं करतलधृतशैलं वेणुवाद्ये रसालम्
ॐविश्वं विष्णुर्हषीकेशः सर्वात्मा सर्वभावनः
अनादिनिधनो देवः सर्वज्ञः सर्वसंभवः
जगद्बीजं जगत्स्रष्टा जगदीशो जगत्पतिः
सर्वाऽऽकृतिधरः सर्वविश्वरूपी जनार्दनः
बहुरूपैकरूपश्च सर्वरूपधरो हरः 5.1.63.
महार्णवो महामेघो जलबुद्बुदसं भवः
अनंतो वासुकिः शेषो वराहो धरणीधरः
हयग्रीवो विशालाक्षो हयकर्णो हयाकृतिः
विनिद्रो निद्रितो नंदी सुनंदो नंदनप्रियः
प्रजापतिपरो दक्षः सृष्टिकर्ता प्रजाकरः
वामनो वाममार्गी च वामकर्मा बृहद्वपुः