एते चाऽन्ये च बहवो दनुवंशवि वर्धनाः
सिद्धा नागाश्च यक्षाश्च किन्नराः किंपुरुषास्तथा
एते चाऽन्ये च बहवो राजानं पर्युपासत
ग्रहैरुज्वलितैः कीर्णो शरदीव नभःस्थलम् 5.1.63.
मरुद्भिरिव संवीतो वासवो दिवि देवतैः
आगतस्तेषु सर्वेषु दानवेषु स्थितेषु च
ववन्दिरे सर्वशस्तु बलिना किंनरोत्त मम्
कृत्वाऽऽतिथ्यं समासीनो नारदः प्राह सत्तमः
तत्र देवसभा रम्या दिव्याऽभिप्रायसंयुता
समासीनाः कथां पुण्यां कथयंति परस्परम्
हिरण्यकशिपुर्दैत्यः पुराऽऽसीच्च प्रजापतिः
सर्वलोकं वशीकृत्य बुभुजे च वसुन्धराम्
वशी सर्वत्रगः कामी नृसिंहेन निपातितः
इति मां धर्षयित्वा च बिडौजा लोकसंग्रही 5.1.63.
तस्मात्त्वं दानवश्रेष्ठ पितृपर्यागतां महीम्
कियद्बलधृता नूनं देवाश्च दनुजोत्तम
मम वाक्यपरो भूत्वा त्रैलोक्याधिपतिर्भव
चकार कोपमतुलं त्रैलोक्यविजये द्विज
संग्राममकरोत्तीव्रं वासवेन बलीयसा
सर्वलोकेश्वरो जातो बलिर्वैरोचनोऽसुरः
विचरंति यथा मर्त्यास्तेन देवगणा भुवि
भो ब्रह्मन्बलिना भ्रष्टा देवलोकात्परंतप
यूयं यात पुरीं रम्यां पद्मावतीमम रोत्तमाः
तत्र तीर्थवरं श्रेष्ठं नाम्ना चोत्तरमानसम् 5.1.63.
निधयश्च नवैवापि तत्र तिष्ठंति सत्तम
तत्र स्नात्वा नरः पश्येत्सिद्धेश्वरीं सुसिद्धिदाम्
आश्विनस्य सिते पक्षे दशम्यां दिवसे तथा
विजयी सर्वलोकेषु जाय ते नात्र संशयः
पूजयेद्वै नरो नित्यं गणेशं सर्वकामदम्
तस्मात्सर्वप्रयत्नेन महाकालवनं व्रजेत्