ईदृशश्च महायोगी सत्यधर्म परायणः
तस्य पौत्रः सदाचारी बलिरित्यभिधीयते
नाल्पायुर्न जडो मूर्खो न रोगी न च मत्सरी
महाराजो महीपालो यज्वा विपुलदक्षिणः 5.1.63.
एकदा च समासीने सभामध्ये वरासने
वाद्यमानेषु वाद्येषु ननृतुश्चाऽप्सरोगणाः
सूता वैतालिकाः सिद्धाश्चारणाश्च बहुश्रुताः
सुन्दोपसुन्दतुहुंडाद्या महिषासुरकोल्बणाः
कालनेमिश्च विक्रांतो दौर्हृदो मूषको यमः
शंखो जलंधरो रौद्रो वातापी च बलाधिकः
एते चाऽन्ये च बहवो दनुवंशवि वर्धनाः
सिद्धा नागाश्च यक्षाश्च किन्नराः किंपुरुषास्तथा
एते चाऽन्ये च बहवो राजानं पर्युपासत
ग्रहैरुज्वलितैः कीर्णो शरदीव नभःस्थलम् 5.1.63.
मरुद्भिरिव संवीतो वासवो दिवि देवतैः
आगतस्तेषु सर्वेषु दानवेषु स्थितेषु च
ववन्दिरे सर्वशस्तु बलिना किंनरोत्त मम्
कृत्वाऽऽतिथ्यं समासीनो नारदः प्राह सत्तमः
तत्र देवसभा रम्या दिव्याऽभिप्रायसंयुता
समासीनाः कथां पुण्यां कथयंति परस्परम्
हिरण्यकशिपुर्दैत्यः पुराऽऽसीच्च प्रजापतिः
सर्वलोकं वशीकृत्य बुभुजे च वसुन्धराम्
वशी सर्वत्रगः कामी नृसिंहेन निपातितः
इति मां धर्षयित्वा च बिडौजा लोकसंग्रही 5.1.63.
तस्मात्त्वं दानवश्रेष्ठ पितृपर्यागतां महीम्
कियद्बलधृता नूनं देवाश्च दनुजोत्तम
मम वाक्यपरो भूत्वा त्रैलोक्याधिपतिर्भव
चकार कोपमतुलं त्रैलोक्यविजये द्विज
संग्राममकरोत्तीव्रं वासवेन बलीयसा
सर्वलोकेश्वरो जातो बलिर्वैरोचनोऽसुरः