प्रातरुत्थाय ते सर्वे गोमतीं सरितां वराम्
स्नानदानादिकं सर्वमत्रैव समुपासय
गोमत्यत्र समालीना यज्ञकुण्डे सरस्वती
सर्वेषामपि लोकानां मार्गोऽ त्रैव च विद्यते 5.1.62.
गोमतीकुण्डमाख्यातं सर्वपापप्रणानशनम्
तत्र स्नात्वा नरो नित्यं रात्रौ जागरणं चरेत्
वैष्णवांश्च नरांश्चैव कृष्णजन्मोत्सुकान्वरान्
गोब्राह्मणानां पूजाश्च क्रियते यैः समाहितैः
गोमतीस्नानजात्पुण्याद्वासुदेवसमागमात्
तथा चैत्रसिते पक्षे यावच्चैकादशी भवेत्
रात्रौ जागरणं कृत्वा विष्णुपूजां तथैव च
गोसहस्रफलं तेषां प्राप्यते नाऽत्र संशयः
सर्वपापविनिर्मुक्ता विष्णुलोकं प्रयांति ते
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखण्डेऽवन्तीक्षेत्रमाहात्म्ये गोमतीतीर्थकुण्डमाहात्म्यवर्णनंनाम द्विषष्टितमोऽध्यायः
तत्र तीर्थे नरः स्नात्वा दृष्ट्वा देवं महेश्वरम्
मुच्यते सर्वपापेभ्यः शुचिः प्रयतमानसः
भुवि पुण्यतमं तीर्थं सर्वपापहरं परम्
महापापहरं पुण्यं महापुण्यफलप्रदम्
विधृता शिरसि सद्यो महादेवेन शंभुना
गंगास्नानफलं प्राप्य विष्णु लोके महीयते
सर्वपापविशुद्धात्मा वीरलोकमवाप्नुयात्
वामनकुण्डेति विख्यातं त्रिषु लोकेषु विश्रुतम्
मनोरथशतं प्राप्य पश्चाद्विष्णु पुरं व्रजेत् व्यास उवाच कदा काले समुत्पन्नं वामनाख्यं पुराऽनघ
तत्सर्वं श्रोतुमिच्छामि त्वत्तो ब्रह्मविदां वर 5.1.63.
यस्य श्रवणमात्रेण सर्वपापात्प्रमुच्यते
प्रह्राद इति विख्यातः सर्वधर्मभृतां वरः
धैर्येण च धृता लोकाः क्षमया विधृता मही
प्रश्रयेणाभ्यागताश्च जितास्तेन महात्मना
शौचाऽऽचारविशुद्धात्मा तपसा च हताऽशुभः
संस्कारेण जितं जन्म दमेनाऽऽत्मा सनातनः