तस्येशानतरे भागे रामो भार्गवसत्तमः 5.1.61.
कौशिकी च सरिच्छ्रेष्ठा सर्वतीर्थवरप्रदा
रामेश्वरं समालोक्य धूतपापो भवेन्नरः
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखण्डेऽवन्तीक्षेत्रमाहात्म्ये पुरुषोत्तमेश्वरमाहात्म्येऽधिमासस्नानदानादिमाहात्म्यवर्णनंनामैकषष्टितमोऽध्यायः
गोमतीकुण्डं त्वया प्रोक्तं पुरा ब्रह्मन्सनातनम्
शृणुष्व भो महाप्राज्ञ कथां पापहरां पराम्
नैमिषे च समासीना ऋषयः शौनकादयः
तस्मिन्नवसरे पुण्ये काशीमाहात्म्यमुत्तमम्
ऊषरः पुण्य पापानां धन्या वाराणसी पुरी
असीवरुणयोर्मध्ये पंचक्रोशी महाफलम्
इति स्मृत्वा तदा व्यास स्वयंभूः प्रत्यभाषत
नदी न गोमतीतुल्या कृष्णतुल्या न देवता
इति ते निश्चयं ज्ञात्वा ऋषयः शौनकादयः
तत्रैव गोमतीतीरे चक्रुस्ते ला धृतव्रताः 5.1.62.
एवं बहुतिथे काले चरतस्तस्य वै व्रतम्
तस्यैव कामपूर्त्यर्थं विद्यार्थिनौ रामजनार्दनौ
निवासं चक्रतुस्तस्य गुरोर्गेहे परंतप
उषस्युषसि तत्रैव दृश्यते न तदा गुरुः
इति पृष्टे तयोरेवं गुरुपत्नी ह्युवाच ह
तत्रैव याति वै नित्यं गुरुस्ते स्नानकारणात्
इति श्रुत्वा तदा कृष्णो रामेण सह संयुतः
गुरोरागमनं कांक्षे अत्रैव स्थितिकांक्षया
तत उत्थाय तौ वीरौ गुरोरावंदनं ततः
श्रूयतां भो महायोगिन्नस्माकं वासकार णम् 5.1.62.
प्रातःकाले च ते ब्रह्मन्समयो नास्ति नौ प्रभो
उवाच भगवान्व्यास आत्मनो व्रतकारणम्
गोमतीस्नानं कर्तव्यं प्रातःकाले सदा बुधैः
इति निश्चित्य युष्माभिर्यद्योग्यं क्रियतां तथा
गोमत्याराधनं चक्रे कुशस्थल्यां द्विजोत्तम
कंथडेश्वरस्योत्तरे भागे गोमती सा समागता