अन्यैश्च विविधैः शाकैराम्रैः पक्वैः पृथक्पृथक्
सुवासितान्गोरसांश्च परिवेष्य मृदु ब्रुवन्
याच्यतां रोचते यच्च यन्मया पाचितं प्रभो
विसर्जयेत्ततो विप्रान्दत्त्वा तांबूलदक्षिणाः
यो ददाति द्विजश्रेष्ठे स भवेत्सुभगो नरः
पुत्रसौभाग्ययुक्ता च तांबूलैर्जायते प्रिये
चूर्णकेनानलः प्रीतः खदिरेण तु मन्मथः
परितोष्य सपत्नीकान्हस्ते दत्त्वा च मोदकान्
असंक्रांते व्रतं नारी या करोतीह सुप्रिये 5.1.60.
नरो वा यदि वा नारी यः कुर्याच्च मलिम्लुचे
मलिम्लुचे प्राप्य न पूजितो यैर्नारायणोऽहं परयेह भक्त्या
करोति स नरो मूर्खो महाकालवनादृते
अधिमासे नरो व्यास तीर्थे पुरुषोत्तमाभिधे
पुरुषोत्तमं समभ्यर्च्य रमालालितपादकम्
वांछितार्थशतं प्राप्य विष्णुलोके महीयते उपोष्य विधिवद्व्यास रात्रौ जागरणं चरेत्
विष्णोश्च पूजनं कार्यं जलयात्रा तथैव च
पुत्रदारधनं सम्यगायुरारोग्यसंपदः
तस्य पूर्वतरे भागे जटेश्वरमहेश्वरः
तपस्तप्त्वा परं लेभे पुण्यं पुण्यवतां वरः
तस्य तीर्थे नरः स्नात्वा तिलधेनुं प्रदापयेत्
तस्येशानतरे भागे रामो भार्गवसत्तमः 5.1.61.
कौशिकी च सरिच्छ्रेष्ठा सर्वतीर्थवरप्रदा
रामेश्वरं समालोक्य धूतपापो भवेन्नरः
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखण्डेऽवन्तीक्षेत्रमाहात्म्ये पुरुषोत्तमेश्वरमाहात्म्येऽधिमासस्नानदानादिमाहात्म्यवर्णनंनामैकषष्टितमोऽध्यायः
गोमतीकुण्डं त्वया प्रोक्तं पुरा ब्रह्मन्सनातनम्
शृणुष्व भो महाप्राज्ञ कथां पापहरां पराम्
नैमिषे च समासीना ऋषयः शौनकादयः
तस्मिन्नवसरे पुण्ये काशीमाहात्म्यमुत्तमम्
ऊषरः पुण्य पापानां धन्या वाराणसी पुरी
असीवरुणयोर्मध्ये पंचक्रोशी महाफलम्