महिमा ह्यपि लोकानां सर्वकामवरप्रदः
महोत्सवस्तदा कार्य आत्मनो हितकांक्षिभिः
कृष्णपक्षे चतुर्दश्यां नवम्यां वा सुरेश्वरि
यथालाभोपहारेण मासे चापि मलिम्लुचे
गृहीत्वा नियमं पश्चाद्वासुदेवं हृदि स्मरन्
एकस्य निश्चयं कृत्वा ततो विप्रान्निमंत्रयेत्
ततो मध्याह्नसमये लक्ष्मीयुक्तं सनातनम्
पूजयेत्परया भक्त्या गोत्रिभिः सपितामहम्
मिष्टान्नैर्नवभिश्चैव नैवेद्यैर्धूपदीपकैः 5.1.60.
घंटामृदंगनिर्ह्रादैर्घोषध्वनिसमन्वितैः
अलाभे तूल्मुकै श्चापि फलस्यानंत्यहेतवे
अर्घ्यं दद्यात्सपत्नीकः प्रहृष्टेनांतरात्मना समादाय च पाणिभ्यां सर्वभक्तिसमन्वितः
अर्घ्यमन्त्रः गृहाणार्घ्यमिमं देव संपूर्णफलदो भव
प्रार्थनामंत्र नमोस्तु ते श्रियानंद ब्रह्मानंद कृपाकर
एवं संप्रार्थ्य गोविंदं पूजयेद्ब्राह्मणात्स्वयम्
पूजयित्वा विधानेन भोजयेद्धृतपायसैः
भोजयित्वा विधानेन सपत्नीकं यथोचितम्
पूजयित्वा यथाशक्त्या वस्त्रालंकारकुंकुमैः
पनसैर्नारिकेलैश्च नारंगैर्दाडिमैस्तथा 5.1.60.
शर्कराघृतपूरैश्च कर्णिकैः खंडमंडकैः
अन्यैश्च विविधैः शाकैराम्रैः पक्वैः पृथक्पृथक्
सुवासितान्गोरसांश्च परिवेष्य मृदु ब्रुवन्
याच्यतां रोचते यच्च यन्मया पाचितं प्रभो
विसर्जयेत्ततो विप्रान्दत्त्वा तांबूलदक्षिणाः
यो ददाति द्विजश्रेष्ठे स भवेत्सुभगो नरः
पुत्रसौभाग्ययुक्ता च तांबूलैर्जायते प्रिये
चूर्णकेनानलः प्रीतः खदिरेण तु मन्मथः
परितोष्य सपत्नीकान्हस्ते दत्त्वा च मोदकान्
असंक्रांते व्रतं नारी या करोतीह सुप्रिये 5.1.60.
नरो वा यदि वा नारी यः कुर्याच्च मलिम्लुचे