देशे काले पर्वणि च तीर्थे चायतने पदे
पूर्णमास्याममावास्यां संक्रांतौ ग्रहणे तथा
गंगायां भास्करक्षेत्रे कुरुक्षेत्रे च पुष्करे
अवंत्यां च हुतं दत्तं तत्सर्वं चाक्षयं भवेत्
कुचैलो दुर्भगो मूर्खो जडो रोगसमन्वितः
के योगाः सुकृतानां च कर्तव्याश्च विशेषतः
मलमासे समायाते ये नरा व्रतवर्जिताः
कदा काले समायाति एतन्नो वद विस्तरात्
देवतापितृकार्याणि विधिना हि मलिम्लुचे
क्षौरं मौंजी विवाहश्च व्रतोपवासकं तथा 5.1.60.
संवत्सरत्रयांते च मासोऽयमधिगच्छति
अधिमासाधिपत्योऽहं सदैव पुरुषोत्तमः
पुरुषोत्तमाख्यं मे धाम सदैवात्र प्रति ष्ठति .
महाकालवने तत्र यत्र तीर्थं ममाभिधम्
तेषामिह ममादेयं न कदापि भविष्यति
असंक्रांतेऽपि संप्राप्ते मामुद्दिश्य व्रतं चरेत्
स्नानं दानं जपो होमः स्वाध्यायः पितृतर्पणम्
अक्षयं च भवेत्सर्वं तेषां वै कमले धुवम्
दारिद्र्यं च सदा तेषां शोकरोगविवर्धनम्
तेषां ददाम्यहं प्रीत्या त्वामेव च न संशयः तत्सर्वं मत्प्रसादेन ह्यनंतं प्रियदर्शने ।। 5.1.60.
महिमा ह्यपि लोकानां सर्वकामवरप्रदः
महोत्सवस्तदा कार्य आत्मनो हितकांक्षिभिः
कृष्णपक्षे चतुर्दश्यां नवम्यां वा सुरेश्वरि
यथालाभोपहारेण मासे चापि मलिम्लुचे
गृहीत्वा नियमं पश्चाद्वासुदेवं हृदि स्मरन्
एकस्य निश्चयं कृत्वा ततो विप्रान्निमंत्रयेत्
ततो मध्याह्नसमये लक्ष्मीयुक्तं सनातनम्
पूजयेत्परया भक्त्या गोत्रिभिः सपितामहम्
मिष्टान्नैर्नवभिश्चैव नैवेद्यैर्धूपदीपकैः 5.1.60.
घंटामृदंगनिर्ह्रादैर्घोषध्वनिसमन्वितैः