अतः परं प्रवक्ष्यामि तीर्थमन्यच्छुभावहम्
ईशाने दुर्भरस्थानान्महाविद्याभिधं महत्
तदग्रे सरसि स्नात्वा महाविद्यां तु यो नरः 2.8.8.
सिद्धपीठं तथा ख्यातं सम्यक्प्रत्ययकारकम्
मंत्रं यः श्रद्धया विप्र शैवं शाक्तमथापि वा
एकाग्रमानसो विद्वन्नाराध्यावर्तयेत्सदा
तस्मादत्र प्रकर्तव्यं जपादिकमतंद्रितैः
देयान्यन्नानि बहुशो नानाविधफलानि च
उच्चाटनादीन्यपि च मोहनादि विशेषतः
सिद्धस्थाने परं मोक्षं वशीकरणमुत्तमम्
आश्विने शुक्लपक्षस्य नवरात्रिषु सुव्रत
यदा पूर्वं विनिर्जित्य रावणं लोकरावणम्
यत्र गत्वा पदा वीरो भरतो रामकांक्षया 2.8.8.
तत्रागमत्सुरगवी प्रादुर्भूता स्रवत्स्तनी
तद्भूमिपतितं दुग्धं दृष्ट्वा वानरराक्षसाः
किमेतदिति राजेंद्र तानुवाच रघूद्वहः
इत्युक्तास्तु ततः सर्वे वसिष्ठप्रमुखे स्थिताः
वसिष्ठोऽपि क्षणं ध्यात्वा तमुवाच निराकुलम्
वसिष्ठ उवाच शृणु राम महाबाहो कामधेनुरियं शुभा
दुग्धमध्ये समुद्भूतो रुद्रस्त्वां द्रष्टुमागतः
इमं संपूजय क्षिप्रमेतत्कुण्डस्य सन्निधौ दुग्धेश्वरमिति ख्यातं क्षीरकुण्डे पवित्रकम्
पूजयामास तल्लिंगं दुग्धेश्वरमिति स्मृतम्
सीतया सत्कृतं यस्मात्तत्कुण्डं क्षीरसंगमम् 2.8.8.
सीताकुण्डे नराः स्नात्वा दृष्ट्वा दुग्धेश्वरं प्रभुम्
अत्र स्नानं जपो होमो दानं चाक्षयतां व्रजेत्
दुग्धेश्वरं च संपूज्य सर्वान्कामानवाप्नुयात्
एवं यो विधिवत्कुर्याद्दयाधर्मविशारदः
तत्र पूर्वदिशाभागे सुग्रीवरचितं महत्
यत्र स्नात्वा च दत्त्वा च रामं संपूज्य यत्नतः
तत्प्रत्यग्दिशि वै स्थानं हनुमत्कुण्डमित्यपि