कस्माच्च ऋषिभिस्त्यक्ता लोकमातरः पतिव्रताः
ऋषिपत्न्य ऊचुः न जानीमो वयं तात येन दोषेण तापसैः
लोकापवादजं किंचिज्जातं दिष्टवशादधम्
यस्याराधनपुण्येन पतिसांनिध्यमाप्नुयुः
इति पृष्टस्तदा ताभिर्ऋषिपत्नीभिर्नारदः
महाकालवने रम्ये गयातीर्थमनुत्तमम्
तत्रैव चाक्षयो नाम न्यग्रोधः शाखिनां वरः
सर्वदोषहरं तीर्थं सर्वकामवरप्रदम् 5.1.59.
नारदस्य वचः श्रुत्वा ऋषिपन्त्यः सुचोदिताः
आजग्मुस्तद्वनं तत्र यत्र तीर्थं गयाभिधम्
कृतास्ताभिश्च पुण्याभिर्नभस्यस्यासितेतरे
उपोष्य चैकरात्रं तु जागरं चैव योगतः
भर्तृकोपपरिभ्रष्टाः सद्यः प्राप्ता गृहाश्रमम्
तदाप्रभृति लोकेस्मिन्पंचमी ऋषिसंज्ञिता
नीवाराहारकं कृत्वा शुचीभूय समाहिताः दुर्भगत्वं च नारीणां न वियोगश्च मातृभिः
पुत्रतो धनतो वापि कदाचित्संभविष्यति
अवंत्यामीदृशं तीर्थं वर्तते भुवि सत्तम 5.1.59.
अस्मिंस्तीर्थे नरः कश्चिन्महा दानानि चेच्चरेत्
यो वै नियमवान्भूत्वा कथामेतां शृणोति वा
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पंचम आवंत्यखण्डेऽवन्तीक्षेत्रमाहात्म्ये गयातीर्थमाहात्म्य वर्णनंनामैकोनषष्टितमोऽध्यायः
पुरुषोत्तमं परं तीर्थं त्वया प्रोक्तं पुरानघ एतत्तु श्रोतुमिच्छामि त्वत्तो ब्रह्मविदां वर
शृणुष्व भो द्विजश्रेष्ठ कथां पापहरां पराम्
यस्याः श्रवणमात्रेण महापापक्षयो भवेत्
समासीनो रमानाथः पार्षदैः सनकादिभिः
ऋदिसिद्धिगुणोपेतैस्तत्त्वैस्तैर्महदादिभिः
किन्नरोद्गानसन्मानैर्नृत्यद्भिरप्सरोगणैः
कल्पद्रुमकृतच्छाय आसीनो हि मुरुद्विषः
तेषां मध्ये परा भाषा ह्यपृच्छत्कमलापतिम्
सर्वज्ञोसि महाप्राज्ञ वाच्यतां यदि रोचते
तथापि विधिना प्राप्तं तत्सर्वं चाक्षयं भवेत् ।। 5.1.60.