तत्तीर्थेषु नरः स्नात्वा तत्तत्तीर्थफलं भवेत्
फल्गुश्च सरितां श्रेष्ठा तथैव फलदायिनी
गयाकोष्ठस्तथा प्रोक्तो गदाधरपदानि च
प्रेतमुक्तिकरी नित्यं शिला चोक्ता तथैव च
देवानां दानवानां च यक्षकिन्नररक्षसाम्
एतत्स्थानेषु सर्वेषु स्नानदानादिकाः क्रियाः
गयायां पितृरूपेण स्वयमेव जनार्दनः
एवं व्यास गयातीर्थं पुरावन्त्यां प्रतिष्ठितम् 5.1.59.
तदारभ्य द्विजश्रेष्ठ गया तत्र प्रतिष्ठिता
तत्पदे च महिमानं जनार्दनसमर्पितम्
पंचक्रोशं गयाक्षेत्रं क्रोशमेकं गयाशिरः सर्वदा सर्वकालेषु गयाश्राद्धं विधीयते
संवत्सरे परं व्यास दिनमेकं प्रतिष्ठितम् महालयेति तत्प्रोक्तं पितॄणां दत्तमक्षयम्
सर्वदा सर्वकालेषु गयाश्राद्धं विधीयते
संवत्सरे परं व्यास दिनमेकं प्रतिष्ठितम्
अक्षय्या जायते तृप्तिः पितॄणां कल्पसंख्यया
भूयस्तु संप्रवक्ष्यामि माहात्म्यं परमाद्भुतम्
सप्तर्षीणां च या भार्या ऋषिपत्न्यः पतिव्रताः
ऋषिभिश्च परित्यक्ता बभ्रमुश्च वनाद्वनम् 5.1.59.
तासां च प्रियमन्विच्छन्समायातो वनांतरे
उवाच श्लक्ष्णया वाचा देशकालोचितं वचः
कस्माच्च ऋषिभिस्त्यक्ता लोकमातरः पतिव्रताः
ऋषिपत्न्य ऊचुः न जानीमो वयं तात येन दोषेण तापसैः
लोकापवादजं किंचिज्जातं दिष्टवशादधम्
यस्याराधनपुण्येन पतिसांनिध्यमाप्नुयुः
इति पृष्टस्तदा ताभिर्ऋषिपत्नीभिर्नारदः
महाकालवने रम्ये गयातीर्थमनुत्तमम्
तत्रैव चाक्षयो नाम न्यग्रोधः शाखिनां वरः
सर्वदोषहरं तीर्थं सर्वकामवरप्रदम् 5.1.59.
नारदस्य वचः श्रुत्वा ऋषिपन्त्यः सुचोदिताः
आजग्मुस्तद्वनं तत्र यत्र तीर्थं गयाभिधम्