दष्ट्रिभिर्व्यंगतो वापि दौर्ब्राह्मण्ये मृताश्च ये
अग्निदग्धाश्च ये जीवा नाग्निदग्धास्तथा परे
विद्युद्धातेन ये केचिन्मुद्गराभिहताः परे
रौरवे चांधतामिस्रे कालसूत्रे च ये गताः
असिपत्रवने घोरे कुंभीपाके च ये गताः तेषामुद्धरणार्थाय अत्र श्राद्धं विधीयते
उदकेषु मृता ये च नारीसूतीमृतास्तथा
अश्वसूकूरकृमिदंष्ट्रिश्वशृंगिशकटाहताः
भग्नदंष्ट्राश्च शस्त्रास्त्रैर्व्याघ्राहिगजभूमिपैः तेषामुद्धरणार्थाय अत्र श्राद्धं विधीयते
अष्टशल्यैर्मृता ये च शौचाचारविवर्जिताः तेषामुद्धरणार्थाय अत्र श्राद्धं विधीयते ।। 5.1.58.
शाकिन्यादि ग्रहग्रस्तजलमध्ये च ये मृताः तेषामुद्धरणार्थाय अत्र श्राद्धं विधीयते
जन्मांतरसहस्राणि भ्रमंति स्वेन कर्मणा
येऽन्यजन्मन्यबांधवा येऽन्यजन्मनि बांधवाः तेषामुद्धरणार्थाय अत्र श्राद्धं विधीयते
पितृवंशे मृता ये च मातृवंशे तथैव च तेषामुद्धरणार्थाय अत्र श्राद्धं विधीयते
ये मे कुले लुप्तर्पिडाः पुत्रदारादिवर्जिताः
पंगुकुब्जा विरूपाश्च आमगर्भाश्च ये मृताः
आब्रह्मभुवनाद्ये च अन्यैर्दुर्मरणैर्मृताः
तृषार्ताः क्षुधिताश्चैव हापिताश्चैव ये मृताः तेषामुद्धरणार्थाय अत्र श्राद्धं विधीयते
एवं श्राद्धविधिं व्यास तस्मिंस्तीर्थे समाचरेत् गयायां च समासाद्य सुरा इंद्रपुरोगमाः
पुनर्योगबलं प्राप्य स्वाधिकारं ययुः पुरा
एवं व्यास गयातीर्थं कुमुद्वत्यां सुनिश्चित म्
तत्तीर्थेषु नरः स्नात्वा तत्तत्तीर्थफलं भवेत्
फल्गुश्च सरितां श्रेष्ठा तथैव फलदायिनी
गयाकोष्ठस्तथा प्रोक्तो गदाधरपदानि च
प्रेतमुक्तिकरी नित्यं शिला चोक्ता तथैव च
देवानां दानवानां च यक्षकिन्नररक्षसाम्
एतत्स्थानेषु सर्वेषु स्नानदानादिकाः क्रियाः
गयायां पितृरूपेण स्वयमेव जनार्दनः
एवं व्यास गयातीर्थं पुरावन्त्यां प्रतिष्ठितम् 5.1.59.
तदारभ्य द्विजश्रेष्ठ गया तत्र प्रतिष्ठिता
तत्पदे च महिमानं जनार्दनसमर्पितम्