एतेषां मानसी कन्या मेना नाम महागिरेः
मैनाकस्य सुतः श्रीमान्क्रौंचो नाम महागिरिः
याम्यां बर्हिषदश्चासन्यमाश्च पश्चिमां दिशम्
अमूर्तिमंतावाकाशे कव्यवाडनलौ क्षितौ
यक्षरक्षःपिशाचाश्च यजंते भावितात्मनः
मानवाः श्राद्धदेवं च ऋषयो ब्रह्म सनातनम्
देवकार्यात्परं कार्यं पितृकार्यं विशिष्यते
जातिस्मरत्वमापन्ना निर्वाणपदवीं गताः
पितॄनुद्दिश्य ते सर्वे भक्षयंतः क्षुधा र्दिताः 5.1.58.
सप्त जातिस्मरास्ते वै योगयुक्ता बभूविरे
श्राद्धे प्रतिष्ठिता लोकाः श्राद्धे योगः परंतप
ब्रह्मचर्यरतो दांतो न क्रोधी न च मत्सरी
एवं यः कुरुते श्राद्धं तीर्थे चैव विशेषतः
वृद्धिश्राद्धे तथा प्रोक्ता महालये शताधिका
प्रयागाद्दशगुणा तृप्तिः कुरुक्षेत्रे च सत्तम
ततो दशाधिका व्यास महाकालवने शुभे
येषां निरयमापन्नाः पितरो जन्मजन्मनि
सकृत्स्मरणमात्रेण पितॄणा दत्तमक्षयम्
गर्भपाते मृता ये च नामगोत्रच्युतास्तथा 5.1.58.
तेषामुद्धरणार्थाय तत्र श्राद्धं विधीयताम्
दष्ट्रिभिर्व्यंगतो वापि दौर्ब्राह्मण्ये मृताश्च ये
अग्निदग्धाश्च ये जीवा नाग्निदग्धास्तथा परे
विद्युद्धातेन ये केचिन्मुद्गराभिहताः परे
रौरवे चांधतामिस्रे कालसूत्रे च ये गताः
असिपत्रवने घोरे कुंभीपाके च ये गताः तेषामुद्धरणार्थाय अत्र श्राद्धं विधीयते
उदकेषु मृता ये च नारीसूतीमृतास्तथा
अश्वसूकूरकृमिदंष्ट्रिश्वशृंगिशकटाहताः
भग्नदंष्ट्राश्च शस्त्रास्त्रैर्व्याघ्राहिगजभूमिपैः तेषामुद्धरणार्थाय अत्र श्राद्धं विधीयते
अष्टशल्यैर्मृता ये च शौचाचारविवर्जिताः तेषामुद्धरणार्थाय अत्र श्राद्धं विधीयते ।। 5.1.58.
शाकिन्यादि ग्रहग्रस्तजलमध्ये च ये मृताः तेषामुद्धरणार्थाय अत्र श्राद्धं विधीयते