ततो नैऋत्यदिग्भागे दुर्भराख्यं सरा शुभम्
तत्र स्नानादवाप्नोति सदा स्वर्गपदं नरः
शिवपूजा प्रकर्त्तव्या स्नात्वा कुण्डद्वये नरैः 2.8.8.
गन्धादिभिः शुभैः पुष्पैरर्च्चनीयो महेश्वरः
इति ध्यात्वा शिवं सार्द्धं निष्पापं प्रयतो नरः
एवं कृत्वा नरो विप्र सर्वपापैः प्रमुच्यते
भाद्रकृष्णचतुर्दश्यां यः कुर्य्याच्छ्रद्धयाऽन्वितः
यः करोति नरो भक्त्या शिवलोके स संवसेत्
विष्णुरुद्रौ च तस्यातिसुप्रसन्नौ सनातनौ
अतः किं बहुनोक्तेन विप्रतीर्थमनुत्तमम्
अतः परं प्रवक्ष्यामि तीर्थमन्यच्छुभावहम्
ईशाने दुर्भरस्थानान्महाविद्याभिधं महत्
तदग्रे सरसि स्नात्वा महाविद्यां तु यो नरः 2.8.8.
सिद्धपीठं तथा ख्यातं सम्यक्प्रत्ययकारकम्
मंत्रं यः श्रद्धया विप्र शैवं शाक्तमथापि वा
एकाग्रमानसो विद्वन्नाराध्यावर्तयेत्सदा
तस्मादत्र प्रकर्तव्यं जपादिकमतंद्रितैः
देयान्यन्नानि बहुशो नानाविधफलानि च
उच्चाटनादीन्यपि च मोहनादि विशेषतः
सिद्धस्थाने परं मोक्षं वशीकरणमुत्तमम्
आश्विने शुक्लपक्षस्य नवरात्रिषु सुव्रत
यदा पूर्वं विनिर्जित्य रावणं लोकरावणम्
यत्र गत्वा पदा वीरो भरतो रामकांक्षया 2.8.8.
तत्रागमत्सुरगवी प्रादुर्भूता स्रवत्स्तनी
तद्भूमिपतितं दुग्धं दृष्ट्वा वानरराक्षसाः
किमेतदिति राजेंद्र तानुवाच रघूद्वहः
इत्युक्तास्तु ततः सर्वे वसिष्ठप्रमुखे स्थिताः
वसिष्ठोऽपि क्षणं ध्यात्वा तमुवाच निराकुलम्
वसिष्ठ उवाच शृणु राम महाबाहो कामधेनुरियं शुभा
दुग्धमध्ये समुद्भूतो रुद्रस्त्वां द्रष्टुमागतः