तत्सर्वं श्रोतुमिच्छामि श्राद्धस्य फलमुत्तमम्
कियंतः पितरो नित्यं तृप्ता यांति सुरालयम्
तथापि शृणु वै वत्स श्राद्धस्य विधिमुत्तमम्
श्राद्धे प्रकल्पिता लोकाः श्राद्धे धर्मः प्रतिष्ठितः
श्रद्धया दीयते किंचिद्दैवं ब्रह्माग्नितर्पणम्
मनुष्या ऋषयः सर्वे सुरसिद्धाश्च राक्षसाः
त्रीन्पितॄंश्च समुद्दिश्य श्राद्धं दद्युः समाहिताः
एवं परंपरामार्गं प्रवर्तंते सनातनम्
तत्सर्वं संप्रवक्ष्यामि यथा श्रुतं तथा शृणु 5.1.58.
अन्योन्यं पितरो ह्येते देवाः पितृगणैः सह
निबोध त्वं मतं सर्वं यदुक्तं तत्समाहितः
चत्वारो मूर्तिमंतो वै त्रयस्तेषां च मूर्तयः
तेषां लोकं विसर्गं च कीर्तयिष्यामि तच्छणु
धर्ममूर्तिधरास्तेषां तपो ये परमं गताः
लोकाः सनातना नाम यत्र तिष्ठंति भास्वराः
विराजस्य द्विजश्रेष्ठ वैराजा इति नः श्रुतम्
एते वै योगविभ्रष्टा लोकान्प्राप्य सनातनान्
ते प्राप्य तां स्मृतिं भूयः सांख्ययोगमनुत्तमम्
एते स्युः पितरस्तात योगिनां योगवर्धनाः 5.1.58.
तस्माच्छ्राद्धानि देयानि योगिनां द्विजसत्तम
एतेषां मानसी कन्या मेना नाम महागिरेः
मैनाकस्य सुतः श्रीमान्क्रौंचो नाम महागिरिः
याम्यां बर्हिषदश्चासन्यमाश्च पश्चिमां दिशम्
अमूर्तिमंतावाकाशे कव्यवाडनलौ क्षितौ
यक्षरक्षःपिशाचाश्च यजंते भावितात्मनः
मानवाः श्राद्धदेवं च ऋषयो ब्रह्म सनातनम्
देवकार्यात्परं कार्यं पितृकार्यं विशिष्यते
जातिस्मरत्वमापन्ना निर्वाणपदवीं गताः
पितॄनुद्दिश्य ते सर्वे भक्षयंतः क्षुधा र्दिताः 5.1.58.
सप्त जातिस्मरास्ते वै योगयुक्ता बभूविरे