तेन सर्वं वशं नीतं चरा चरमिदंजगत्
नैव देवा न यज्ञाश्च वेदमार्गविवर्जिताः
उत्सन्नो धर्ममार्गोऽयं शाश्वतो वै दुरात्मना 5.1.57.
ब्रह्माणं शरणं जग्मुः पितृभिः सह साधुभिः
इति श्रुत्वा वचस्तेषां ब्रह्मा लोकपितामहः
तत्र गत्वा समाराध्य विष्णुं देवगणैः सह
प्रचक्रुः सर्व एवैते ह्यात्मनोभ्युदयाय च
श्रूयतां भोः सुरश्रेष्ठा भवतां श्रेय उत्तमम्
गुह्याद्गुह्यतरं पुण्यं पवित्रं पापनाशनम्
सर्वतीर्थमयं तीर्थं कोटितीर्थवरप्रदम्
दैत्यांतकारिणी दिव्या महाकाली कुलेश्वरी
यत्र गया महापुण्या फल्गुश्चैव महानदी
तथैवाद्यगया ख्याता त्रिषु लोकेषु विश्रुता 5.1.57.
सर्वपापहरा पुण्या यत्र प्राची सरस्वती
न्यग्रोधश्चाक्षयो नित्यः पुरा प्रोक्तो महर्षिणा
तत्रैव संति ताः सर्वा देवताः पितृकल्पजाः
सर्वतीर्थमया देवा गयातीर्थमनुत्तमम्
यत्र प्रविष्टमात्रेण पितरो निरयस्थिताः
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखण्डेऽवन्तीक्षेत्रमाहात्म्ये गयातीर्थमाहात्म्ये गयातीर्थप्रशंसावर्णनं नाम सप्तपञ्चा शत्तमोऽध्यायः
भगवन्भवता सर्वं विदितं विश्वमूर्तिना
तत्सर्वं श्रोतुमिच्छामि श्राद्धस्य फलमुत्तमम्
कियंतः पितरो नित्यं तृप्ता यांति सुरालयम्
तथापि शृणु वै वत्स श्राद्धस्य विधिमुत्तमम्
श्राद्धे प्रकल्पिता लोकाः श्राद्धे धर्मः प्रतिष्ठितः
श्रद्धया दीयते किंचिद्दैवं ब्रह्माग्नितर्पणम्
मनुष्या ऋषयः सर्वे सुरसिद्धाश्च राक्षसाः
त्रीन्पितॄंश्च समुद्दिश्य श्राद्धं दद्युः समाहिताः
एवं परंपरामार्गं प्रवर्तंते सनातनम्
तत्सर्वं संप्रवक्ष्यामि यथा श्रुतं तथा शृणु 5.1.58.
अन्योन्यं पितरो ह्येते देवाः पितृगणैः सह