तस्य शानैश्चरी पीडा न भवेत्तु कदाचन
यज्ञकुण्डोत्तरे भागे यत्र तिष्ठति मारुतिः
यत्र सिद्धिं परां प्राप्तस्तपसा पवनात्मजः
सवासो मणिमु क्ताभिः कांचनालंकृतं वरम्
मातृलोकं समुत्तीर्णो ब्रह्मलोके महीयते
धर्मतीर्थे सदाचारी स्नानदानादिकाः क्रियाः 5.1.56.
च्यवनाश्रमे नरः स्नात्वा च्यवनेश्वरं विलोकयेत्
च्यवनस्य प्रसादेन देवपंक्तिमवापतुः
तस्मिंस्तीर्थे द्विजश्रेष्ठ दिव्यदृष्टिर्भवेन्नरः
अनु सूर्यां महाभागां सावित्रीं लोकविश्रुताम्
तस्माद्व्यास परं तीर्थं क्षातासंगमसंज्ञितम्
य एतां तु कथां पुण्यां शृणोति भुवि भक्तितः
कपिलागोसहस्रेण फलं भवति पर्वणि
तीर्थानामुत्तमं तीर्थं गयानामेति नामतः
तत्र स्नात्वा नरो नित्यं मुच्यते च ऋणत्रयात्
च्यवनस्याश्रमः पुण्यः पुण्यो राजगिरिस्तथा
स कथं विदितो देशे महाकालवने शुभे
यस्याः श्रवणमात्रेण पितरो यांति सद्गतिम्
पुरा कृतयुगे पुण्ये युगादिदेवनामतः
तस्य पालयतः सम्यक्प्रजाः पुत्रानिवौरसान्
धर्मश्चतुष्पदो नित्यं यस्मिन्राज्ञि प्रशासति
बहुसस्यफला पृथ्वी गावश्च बहुदुग्धदाः
वैश्या धनपरा नित्यं शूद्राः शुश्रूषणे रताः 5.1.57.
श्रुतिस्मृतिपरो धर्मो हृष्टपुष्टजनाकरः
दुःशीला दुर्भगा नारी विधवा नैव लक्ष्यते
रूपशीलगुणोपेता पतिव्रतपरायणा
हूयतां भुज्यतां शश्वद्दीयतां च गृहेगृहे
जनाः सर्वत्र दृश्यंते सर्वधर्म परायणाः
एवं राजा स धर्मात्मा युगादिदेवसंज्ञितः
अवंत्यां च पुरा व्यास यज्ञकोटिं समाचरत्