बन्दीप्रीत्यै मुनिश्रेष्ठ देयं ब्राह्मणभोजनम्
तदुत्तरस्मिंस्तत्रैव चुडकी भुवि कीर्तिता
सुसंदिग्धेषु कार्येषु भये च समुपस्थिते 2.8.8.
अग्रे तस्याः सदा कार्या नृभिरंगुष्ठतो ध्वनिः
सर्वाभीष्टप्रदं नॄणां दीपदानं प्रशस्यते
ततः पूर्वदिशाभागे वर्त्तते तीर्थमुत्तमम्
यत्र स्नानेन दानेन पूजया च द्विजन्मनाम्
भाद्रे कृष्णचतुर्दश्यां यात्रा सांवत्सरी स्मृता
महारत्न इति ख्यातं तस्मात्तीर्थमनुत्तमम्
नारीभिरपि विप्रर्षे कर्त्तव्यो जागरोत्सवः तत्र स्नानं प्रयत्नेन कर्त्तव्यं श्रद्धया नरैः
ततो नैऋत्यदिग्भागे दुर्भराख्यं सरा शुभम्
तत्र स्नानादवाप्नोति सदा स्वर्गपदं नरः
शिवपूजा प्रकर्त्तव्या स्नात्वा कुण्डद्वये नरैः 2.8.8.
गन्धादिभिः शुभैः पुष्पैरर्च्चनीयो महेश्वरः
इति ध्यात्वा शिवं सार्द्धं निष्पापं प्रयतो नरः
एवं कृत्वा नरो विप्र सर्वपापैः प्रमुच्यते
भाद्रकृष्णचतुर्दश्यां यः कुर्य्याच्छ्रद्धयाऽन्वितः
यः करोति नरो भक्त्या शिवलोके स संवसेत्
विष्णुरुद्रौ च तस्यातिसुप्रसन्नौ सनातनौ
अतः किं बहुनोक्तेन विप्रतीर्थमनुत्तमम्
अतः परं प्रवक्ष्यामि तीर्थमन्यच्छुभावहम्
ईशाने दुर्भरस्थानान्महाविद्याभिधं महत्
तदग्रे सरसि स्नात्वा महाविद्यां तु यो नरः 2.8.8.
सिद्धपीठं तथा ख्यातं सम्यक्प्रत्ययकारकम्
मंत्रं यः श्रद्धया विप्र शैवं शाक्तमथापि वा
एकाग्रमानसो विद्वन्नाराध्यावर्तयेत्सदा
तस्मादत्र प्रकर्तव्यं जपादिकमतंद्रितैः
देयान्यन्नानि बहुशो नानाविधफलानि च
उच्चाटनादीन्यपि च मोहनादि विशेषतः
सिद्धस्थाने परं मोक्षं वशीकरणमुत्तमम्