स्त्रियो वा रजो दोषार्ता वंध्याः काकबकादिकाः
विमलोदेऽपि ताः स्नात्वा दृष्ट्वा वै विंध्यवासिनीम् 5.1.55.
अपुत्रा प्राप्नुयुः पुत्रान्कन्या वीरपतिं वरम्
विद्यावाञ्जायते विप्रः क्षत्रियो विजयी भवेत्
कथां पुण्यवतीमेतां सर्वकामवरप्रदाम्
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखण्डेऽवन्तीक्षेत्रमाहात्म्ये विंध्यवासिनी विमलोदतीर्थमाहात्म्यवर्णनंनाम पञ्चपञ्चाशत्तमोऽध्यायः
यत्र तु स्नानमात्रेण महापापैः प्रमुच्यते
अमा वै शनिवारेण यदायाति समाहितः
पश्येच्छनैश्चरं देवं स्थावरं लिंगमुत्तमम्
भूयस्तु श्रोतुमिच्छामि विस्तरेण तपोधन
यस्याः श्रवणमात्रेण महापापक्षयो भवेत्
रेवा चर्मण्वती क्षाता तिस्रो नद्यः पुराऽनघ
पुण्याः पुण्यजला रम्याः पवित्राः पापहारकाः
एकदोपवने रम्ये मांधातृक्षेत्र उत्तमे
किंचिद्दोषप्रसंगेन मिथो भेदो ह्यजायत
महाकालवने रम्ये समा याता सरिद्वरा 5.1.56.
सर्वतीर्थवरं श्रेष्ठं नामा रुद्रसरः स्मृतम्
तत्रागत्य पुरा क्षाता शिप्रासंगं समाश्रिता यत्र धूतरजा जातः सद्यः प्रोक्तो विभावसुः
एतद्वेदितुमिच्छामि त्वत्तो ब्रह्मविदांवर
सनत्कुमार उवाच पुरानुसूर्यां सावित्रीं त्वष्टा स्वतनयां ददौ
पतिधर्मरता नित्यं सिषेवे लोकचक्षुषे
यमो वैवस्वतो जातो यमुना लोकपावनी
मिथुनं मे तवोत्संगे धृतं त्वं परिपालय
रविभक्तिरता नित्यं चर त्वं मम वेश्मनि
एवं सा समयं कृत्वा सावित्री ह्यगमत्तदा
पित्र निवारिता सद्यो वडवारूपधारिणी 5.1.56.
एकदा याचिता तेन वैवस्वतेन बुभुक्षता
तदा पदाहता तेन च्छाया तं च शशाप ह
तस्मात्त्वं च पदा खंजो भविष्यसि न संशयः
एतस्मिन्नंतरे व्यास परिभूय वसुंधराम्